Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१३६
श्रीशान्तिनाथचरित्रे
उद्दोषणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्त्वा स नरः संस्थितस्ततः ॥ ५३ ॥ पूजयामासतुः पुष्पैर्यक्षं गत्वा च तत्र तो। आवां निस्तारयेत्याशु तदुक्तौ च जजल्पतुः ॥ ५४ ॥ उवाच शैल को निस्तारयिष्यामि युवामहम् । - एकं त्ववहितो भूत्वा वाक्यं संशृणुतं मम ॥ ५५ ॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिष्यति वचांस्यपि ॥ ५६ ॥ अनुरागं ततस्तस्यां युवां यदि करिथथः । ततचोल्लालयित्वाऽहं प्रक्षेप्समामि महोदधौ ॥ ५७ ॥ यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । तत: क्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ५८ ॥
॥ किं बहुना ॥
संमाननं न दृष्ट्याऽपि तस्याः कार्य कथञ्चन । न भत्तव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ५८ ॥ व्यवस्थयाऽनया स्खं भोः ! शक्ती निर्वाहितुं यदि । तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ६० ॥ ततस्तत्पृष्ठमारूढौ तावशीलत्य तहचः । उत्पत्य नभसा सोऽपि ययौ मध्येमहोदधेः ॥ ६१ ॥ अत्रान्तरे च देवी साऽपश्यन्ती तौ स्ववेश्मनि । बधाम वनखण्डेषु तत्राऽप्येतो ददर्श न ॥ ६२ ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105