Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 45
________________ तृतीयः प्रस्तावः । ततो ज्ञानोपयोगेन ज्ञात्वा तहमनं तयोः । दधावे खङ्गमादाय पृष्ठे कोपपराऽमको ॥ ६३ ॥ दृष्ट्वा च तावुवाचैवं रे ! किं याथो विमुच्च माम् । पुनरागच्छतं स्वस्य जीवितं वाञ्छतो यदि ॥ ६४ ॥ नोचेदनेन खङ्गेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणिती ताविदं पुनः ॥ ६५ ॥ मम पृष्ठे स्थितावस्था मा भैष्टं भोः ! कथञ्चन । इति संधीरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ६६ ॥ ततोऽनुकूलवाक्यानि जजल्पैवममौ यथा । १३० मां मुक्काकिनीं दोनां क्क प्रियो प्रस्थिती युवाम् ॥ ६७ ॥ इत्यादिदो नवचनैस्तया भणितयोरपि । न चचाल तयोश्चित्तं यत्तावष्टम्भशालिनोः ॥ ६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यचे जिनरक्षितम् । मम प्रियो विशेषेण त्वमेवामि महाशय ! ॥ ६८ ॥ ईक्षणाऽऽलापसंमानक्रियासाम्येऽपि देहिनाम् । चित्ताह्नादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ७० ॥ एवं ममाऽपि कुर्वत्या युवाभ्यां मह मङ्गतिम् । जिनरक्षित ! मद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ७१ ॥ तदेहि देहि हे कान्त ! ममेकान्तरतः सुखम् । अन्यथाऽहं मरिष्यामि त्वद्वियोगरुजाऽर्दिता ॥ ७२ ॥ नाथानाथां म्रियमाणां दृष्ट्या मां किं न वीचसे । ददाति रागिणी प्राणानित्यर्थे संशयो नु किम् ॥ ७३ ॥ १८

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105