Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 48
________________ १४० श्रीशान्तिनाथचरित्रे तद् भोः ! प्रपद्य थामण्यं पुनर्भोगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ८५ ॥ समर्पिता प्रवर्ति न्यास्ततोऽसौ रत्नमञ्जरी। कृत्वोदारं तपस्तौ दो संप्राप्तौ परमं पदम् ॥ ६ ॥ ॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥ स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिवुद्धोऽसौ राजा स्तिमितसागरः ॥ ८७ ॥ अनन्तवीयं भूपत्वे, कुमारत्वेऽपरं सुतम् ।। विन्यस्यास्य मुनेः पावें स दीक्षां समुपाददे ॥ ८८ ॥ . विराध्य मनसा किञ्चित् सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भुवने जज्ञे चमरेन्द्रोऽसुराऽधिपः ॥ ८ ॥ इतोऽपराजितानन्तवीर्ययोर्वि भुताजुषोः । विद्याधरण केनाऽपि मैत्री सममजायत ॥ ५०० ॥ दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः । सर्वा तत्साधनोपायसामग्री च निवेदिता ॥ १ ॥ बर्बरीति चिलातीति गीतनाट्यकलाविदी। तयोर्बभूवतुर्दास्यो विनोदास्पदमद्भुतम् ॥ २ ॥ अन्यदा स्थानमासौनो सन्नाट्य क्रियया तयोः । अभूतां व्याकुली यावत् ती बन्ध रङ्गनिर्भरौ ॥ ३ ॥ तावत् तत्र ब्रह्मधारी स्वेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययो ॥ ४ ॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105