________________
श्रीशान्तिनाथचरित्रे
भ्रान्त्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ ७८ ॥ हयेन हेषितं द्राक् हस्तिना गुलगुलायितम् । चक्रे तस्योपरि च्छतं तस्थौ तत्र स्वयं तथा ॥ ७० ॥ वोजितं चामराभ्यां च भृङ्गारेण विनिर्ममे । महीपत्वा'भिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ ८० ॥ ततस्तं शुण्डयोत्पाद्य गज: स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गल: ॥ ८१ ॥ पुरप्रवेश तस्याथ मिलितो महिलाजनः । राजराज्ञयोः स्वरूपं तं दृष्ट्वाऽन्योऽन्यमदोऽवदत् ॥ ८२ ॥ काचिज्जजल्प राज्ञोऽस्य रूपसम्पद'मुत्तमाम् । पश्य विश्वजनश्लाघ्यां हला ! रतिपतरिव ॥ ८३ ॥ अन्याऽवादीत् किमन्यत्त्वं मुग्धे ! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या न स्त्री त्रिभुवनेऽपि यत् ॥ ८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्दन मोहितोऽयमभून्नप: ॥ ८५ ॥ इतरोचे हला ! पुण्यभागिन्येषा महीतले । यया विश्वजनश्रेष्ठो लब्ध एवंविधो धवः ॥ ८६ ॥ प्रत्यक्तमन्ययोषाभिधन्यो येनेटशी प्रिया । लब्धा विदेशगेनापि लक्ष्मीरिव मुरहिषा ॥ ८७ ॥
(१) ज महीपट्टाभि- | ख ण महोपत्य- । (२) ण रूपसंपद उत्तमाः ।
(३) ण द प्रत्यकमन्ययैषोऽपि ।