Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 38
________________ १३० श्रीशान्तिनायचरित्रे इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥ ८८ ॥ अज्ञानमोहितप्राणिप्रतिबोधविधी रतः । धर्मघोषमुनीन्द्रोऽपि विजहार महीतले ॥ ८ ॥ मम ये रत्नमञ्जयाँ देव्याः सूनुरजायत । तदेव समभूत् तस्य नाम यद् गुरुणोदितम् ॥ ४००। धात्रीभिः पालितः सोऽथ समतिकान्तशेशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥ १॥ स एव सुगुरुस्तत्र पुनरन्येद्युराऽऽययौ। उद्यानपालकस्तस्याऽऽगतिं राजे शशंस च ॥ २ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥ ३ ॥ राज्ञः सपरिवारस्य दत्त्वा दीक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥ ४ ॥ भवाम्भोधिपतज्जन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिभि: ॥ ५ ॥ प्रव्रज्यां प्रतिपद्यापि स्यर्यके विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥ ६ ॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेऽत्र मवन्ति सुखभाजिनः ॥ ७ ॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । मूरिः सिद्धान्तकथितां भविष्यन्ती तयोः कथाम् ॥ ८॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105