Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
PY
श्रीशान्तिनाथचरित्रे
सोऽवदद् विद्यतेऽग्रेऽपि 'हे वत्सौ। प्रचुरं धनम् । निजेच्छया त्यागभोगी तेनैव कुरुतं युवाम् ॥ १४ ॥ इयं च हादशी वेला भवेत् सोपट्रवाऽप्यसौ। ततो न युज्यते वाडौं प्रयातुमिति मे मतिः ॥ १५ ॥ अथ तावूचतुस्तात ! मा वादौरीदृशं वचः ।। भाविन्येषाऽपि नौयात्रा क्षेमेण त्वत्प्रसादतः ॥ १६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणी। क्रयाणकं जग्गृहतुर्गणिमादि चतुर्विधम् ॥ १७ ॥ सामग्री सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुहा चार्णोधी ततः प्रविशत: स्म तौ ॥ १८ ॥ तयोमहासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगजं च बलाहकः ॥ १८ ॥ विललासासकट विद्युदूर्मयश्च जजृम्भिरे । वातश्च प्रबलो जने यानं तेन ननर्त तत् ॥ २० ॥ स्फुटितं च क्षणादेव विधुर धौरचित्तवत् । विपन्नस्तहतो लोकस्तो यानाधिपती पुन: ॥ २१ ॥ लब्धा फलहकं किञ्चित् तद् गाढं परिरभ्य च । तौरमासेदतू रत्नदीपस्य दिवसैस्त्रिभिः ॥ २२ ॥ (युग्मम्) । नालिकेरीफलैस्तत्र प्राणयात्रां विधाय तो। तत्तैलाभ्यङ्गयोगेन रूढदेही बभूवतुः ॥ २३ ॥
(१) छ झ ट थ तनयो।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105