Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 36
________________ १२८ श्रीशान्तिनाथचरित्रे वध्वाः सत्यश्रियस्तस्या भुज्ञ्जानाया गृहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद गले ॥ ७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जमे । कवलैर्लघुभिः किं त्वं यथा नो विलगेगले ॥ ७८ ॥ अन्येद्युः कर्मक्कृत् सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुष्मिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ८० ॥ सोऽवदद् व्याकुलोऽद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं खजना मा मिलन्तु ते ॥ ८१ ॥ अत्रान्तरे मुनिद्दन्द्वं गृहे तस्य समागतम् । दानमस्मै प्रदेहोति भणिता चामुना प्रिया ॥ ८२ ॥ सुपात्रमिति हर्षेण तया तत्प्रतिलाभितम् । प्राशकै भक्तपानाद्यैरकृताकारितैस्तथा ॥ ८३ ॥ दयौ कर्मकरोऽप्येतौ धन्यौ याभ्यां महामुनी । काले निजग्टहायातौ भक्तितः प्रतिलाभितौ ॥ ८४ ॥ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥ ८५ ॥ सौधर्मकल्पे देवत्वं प्राप्ताथ प्रीतिनिर्भराः । ततः क्षेमङ्गरश्चुप्रत्वा त्वमभूर्जगतीपते ! ॥ ८६ ॥ जीवः सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी । जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥ ८७ ॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ८८ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105