Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 31
________________ तृतीयः प्रस्तावः । तामिहानय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ २६ ॥ तम्मादुपद्रवादाशु मुच्यते मेति सूरिणा । कथितं श्रेष्ठिना निन्ये मा सद्यस्तत्पदान्तिकम् ॥ २० ॥ नष्टाः सूरिप्रभावेण खगामिन्यः चणेन ताः । श्रुत्वा च चरितं स्वस्य जातिस्मृतिमवाप मा ॥ २८ ॥ जजल्प च प्रभो ! सत्यं यद् युष्माभिर्निवेदितम् । तदलं भववासेन परिव्रज्यां प्रयच्छ मे ॥ २८ ॥ गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति । भुक्ते तस्मिन् श्रमणी त्वं भविष्यसि शुभाशये ! ॥ ३० ॥ एवमस्त्विति तच्छ्रेष्ठी प्रतिपद्याऽऽययौ गृहम् । तदृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३१ ॥ अत्यद्भुतं भगवतो ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्त यहत्तं पूर्वजन्मनि ॥ ३२ ॥ पप्रच्छ च प्रभो ! मित्रानन्दस्य सुहृदः कयाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३ ॥ गुरुणोक्तं महाराज ! त्वत्पार्खाञ्चलितोऽय सः । जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥ ३४ ॥ तत्रैकत्र गिरिणदीप्रपाते तस्थिवानमी । तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥ ३५ ॥ (१) पद -द्य ययौ । १२३

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105