Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 33
________________ तृतीयः प्रस्तावः । मोऽपि पारमकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सोच्च तदहिः ॥ ४६ ॥ तत्र रात्रावमौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निर्डमननान्तः प्रविवेश तदा पुनः ॥ ४७ ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रहकर्मणि ॥ ४८ ॥ ( युग्मम्) प्रविगंश्चौरवत् तेन मित्रानन्दो निरीक्षितः । बहश्च केकिबन्धेन विपरीतविधेर्वशात् ॥ ४८ ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारण समर्पितः ॥ ५० ॥ अयं मिप्रानदीतीरे वटवृक्षे महीयसि । उद्दध्य वध्यो युमाभिरिति चाज्ञापिता इमे ॥ ५१ ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्दचनं सत्यं यच्छवेनोदितं पुरा ॥ ५२ ॥ यत्र वा तत्र वा यातु यदा तहा करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वक्कृतकर्मणा ॥ ५३ ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ ५४ ॥ याति दूरममौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ ५५ ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ ५६ ॥ १२५

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105