________________
तृतीयः प्रस्तावः ।
मोऽपि पारमकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सोच्च तदहिः ॥ ४६ ॥ तत्र रात्रावमौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निर्डमननान्तः प्रविवेश तदा पुनः ॥ ४७ ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रहकर्मणि ॥ ४८ ॥ ( युग्मम्) प्रविगंश्चौरवत् तेन मित्रानन्दो निरीक्षितः । बहश्च केकिबन्धेन विपरीतविधेर्वशात् ॥ ४८ ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारण समर्पितः ॥ ५० ॥ अयं मिप्रानदीतीरे वटवृक्षे महीयसि । उद्दध्य वध्यो युमाभिरिति चाज्ञापिता इमे ॥ ५१ ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् ।
जातं तद्दचनं सत्यं यच्छवेनोदितं पुरा ॥ ५२ ॥ यत्र वा तत्र वा यातु यदा तहा करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वक्कृतकर्मणा ॥ ५३ ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ ५४ ॥ याति दूरममौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ ५५ ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ ५६ ॥
१२५