________________
१२६
श्रीशान्तिनाथचरित्रे
एवं विचिन्तयन्नेष तैरारक्षकपूरुषैः । तत्रोहद्धो वटे नौत्वाऽपराधरहितोऽप्य हो ! ॥ ५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्प्लुत्योन्नतिकाऽविक्षत् मुखे तस्यापि पूर्ववत् ॥ ५८ ॥ तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥ ५८ ॥ हा मित्र ! निर्मलस्वान्त ! हा परोपकती रत !। हा प्रशस्यगुणवात ! हा भ्रातः ! क्व गतोऽसि हा ! ॥६॥ देवी च विललापैवं हा देवर ! सखिप्रिय !। सुविचार ! गुणाधार ! निर्विकार ! क्क तिष्ठसि ॥ ६१ ॥ यदाऽहं भवताऽऽनीता तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्ती ते क गता हा महामते ! ॥ ६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोक मा कुरु राजेन्द्र ! भवभाव विभावय ॥ ६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसार परमार्थतः । , सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ६४ ॥ स कोऽपि नास्ति संसार मृत्यना यो न पीडितः । सिद्धमार्गममुं ज्ञात्वा क: शोकं कुरुते सुधीः ॥ ६५ ॥ शोकाऽऽवेशं परित्यज्य राजन् ! धर्मोद्यमं कुरु । येनेशानां दुःखानां भाजनं नोपजायसे ॥ ६६ ॥ राज्ञा प्रोचे करिष्यामि धर्म मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर ! ॥ ६७ ॥