________________
तृतीयः प्रस्तावः ।
मूरिः प्रोवाच ते देव्याः मोऽस्या: कुक्षी समागतः । मुतत्वेन यतम्तेन भावना भाविता तदा ॥ ६८ ॥ जात: कमलगुप्ताख्यम्तव पुत्रः सुविक्रमः । पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥ ६८ ॥ पुनः पप्रच्छ भूपाल: कथं तस्य महात्मनः । जाता निरागमोऽप्येवं तस्करस्येव पञ्चता ॥ ७० ॥ कलङ्गसम्भवो देव्याः कथं वा समभूत् प्रभो! । मम बन्धुवियोगश्चाबाल्यादप्यभवत् कथम् ॥ ७१ ॥ स्नेहोऽधिकतरीऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ ७२ ॥ इतो भवात् तृतीये त्वं भवे क्षेमङ्गराभिधः । आसी: कौटुम्बिको राजन् ! सत्य योस्तस्य गेहिनी ॥ ७३ ॥ चण्डसेनाभिध: कर्मकरः कर्म क्रियापटुः ।। बभूव च तयोभक्तोऽनुरक्तो विनयान्वित: ॥ ७४ ॥ तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाण: कञ्चनाध्वगम् । परक्षेत्रे धान्यशम्बा' ग्टह्वन्तं समलोकयत् ॥ ७५ ॥ ऊचे चैनमहो चौरमुल्लम्बय तराविति । न क्षेत्रस्वामिना तस्य विदधे किञ्चनापि तु ॥ १६ ॥ दूनस्तबचमा सोऽथाध्वगः कर्मकताऽपि तत् । बडं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ७७ ॥
(१) ञण द -सिगा।