Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 28
________________ श्रीशान्तिनाथचरित्रे प्रत्युक्तो भूभुजा सोऽपि मा कार्षीस्त्वं भयं सखे ।। दुष्टोऽपि स्थितयोरत्र कर्ता नो व्यन्तरः स किम् ? ॥१८॥ मित्रानन्दोऽवदत् प्रत्यासत्रत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते ! ॥ ८ ॥ विचिन्त्योक्तं पुना राज्ञा यद्येवं गच्छ तत् सखे ! । नरैः प्रत्ययितैः साई वसन्तपुरपत्तनम् ॥ ३०० ॥ अङ्गीकते तदादेशे विसृष्टोऽसौ महीभुजा। प्रेषिताश्च समं तेन शिक्षा दत्त्वेति पूरुषाः ॥ १ ॥ हंहो ! तत्र गतेः कश्चिद् युभन्मध्यान् ममान्तिकम् । आगन्तव्यमित्तस्य क्षेमवाती निवेदितुम् ॥ २ ॥ अथ मित्रे गते राजा तहियोगार्दितोऽपि सः । पुण्य लब्धां समं देव्या भुङक्त स्म नृपतिश्रियम् ॥ ३ ॥ तेषां मध्यानणां कोऽपि नाऽऽययौ भूभुजा ततः । अन्ये संप्रेषितास्तस्य शुद्धिज्ञान कृते नराः ॥ ४ ॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः। दृष्टोऽसौ तत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुता न हि ॥ ५ ॥ ततः संभ्रान्तचित्तो राट् देवीमूचे कथं प्रिये ! कर्तव्यं यन्न वार्ताऽपि श्रुता मित्रस्य हा ! मया ॥ ६ ॥ साऽऽख्यद् यद्येति कोऽप्यत्र ज्ञानी तत्तेन छिद्यते । सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ॥ ७ ॥ उद्यानपालकेनेति विज्ञप्तोऽत्रान्तरे नृपः । देवाऽऽयातोऽस्ति श्रीधर्मघोषसूरिः पुरे तव ॥ ८ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105