Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
तृतीयः प्रस्तावः ।
मित्रानन्दोऽवदत्तर्हि तदग्रे कयय त्वकम् |
भद्रे ! गुणोत्करः पव्यमानो यस्य श्रुतस्त्वया ॥ ८८ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा । तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥८०॥ युग्मम्) प्रतिश्रुत्याय तत्कार्य मा तस्या अन्तिकं ययौ I तया च दृष्टवदना दृष्टा पृष्टैवमत्रवीत् ॥ ८२ ॥ श्रहं हि त्वत्प्रियोदन्तमद्य तुभ्यं निवेदितुम् । आगताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ ८२ ॥ कोऽसौ मम प्रिय इति तयोक्ते सा न्यवेदयत । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ ८३ ॥ तच्छ्रुत्वा राजपुत्रेऽवं दध्यौ धूर्त्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ ८४ ॥ परं येनेदृशी कूटरचना विहिता विशा । पश्यामि तमहं दृट्येत्यालोच्चाका तयोदिता ॥ ८५ ॥ गवाक्षेणामुना मोऽद्याऽऽनेतव्यः पुरुषस्त्वया । मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ ८६ ॥ आगत्य निजगेहे मा कुट्टिनी हर्षपूरिता । तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ ८७ ॥ निनाय च निशायां तं द्वारे राजगृहस्य मा । प्राकारमप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ ८८ ॥ कन्यावासगृहं पृष्ट्वा मित्रोऽय विससर्ज ताम् । विद्युदुत्क्षिप्त किरणेनाविशच्च नृपालये ॥ ८८ ॥
२०८

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105