Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 16
________________ थोशान्तिनाथचरित्र तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्ग सोऽस्थाबुद्धिमतां वरः ॥ ७८ ॥ गतेऽथ प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ ८० ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ ८१ ॥ सद्भावेऽय तयाऽऽख्याते पुनः सा भणिताऽकया। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ ८२ ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रित शीर्षे तत्प्रसूनमिवास्थिरम् ॥ ८३ ॥ द्वितीयाऽपि निशा तस्यातिक्रान्तवं तथाऽपरा। ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ ८४ ॥ भट्रेमा मम पुत्रों त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरतामप्यकामयन् ॥ ८५ ॥ सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्वहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति रहे नवा ॥ ८६ ॥ सोवाच वत्स ! मे पुत्री राजश्चमरध'यसौ। तेन तस्य रहे रात्री दिवा चाहमवारिता ॥ ८७ ॥ यद्येवं तस्य तनयामक ! त्वं रत्नमञ्जरीम् । जानासीत्युदिता तेन सोचे सा मत्मतासखो ॥ ८८ ॥ (१) द -धा-।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105