________________
थोशान्तिनाथचरित्र
तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्ग सोऽस्थाबुद्धिमतां वरः ॥ ७८ ॥ गतेऽथ प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ ८० ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ ८१ ॥ सद्भावेऽय तयाऽऽख्याते पुनः सा भणिताऽकया। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ ८२ ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रित शीर्षे तत्प्रसूनमिवास्थिरम् ॥ ८३ ॥ द्वितीयाऽपि निशा तस्यातिक्रान्तवं तथाऽपरा। ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ ८४ ॥ भट्रेमा मम पुत्रों त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरतामप्यकामयन् ॥ ८५ ॥ सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्वहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति रहे नवा ॥ ८६ ॥ सोवाच वत्स ! मे पुत्री राजश्चमरध'यसौ। तेन तस्य रहे रात्री दिवा चाहमवारिता ॥ ८७ ॥ यद्येवं तस्य तनयामक ! त्वं रत्नमञ्जरीम् । जानासीत्युदिता तेन सोचे सा मत्मतासखो ॥ ८८ ॥
(१) द -धा-।