Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 20
________________ ११२ श्रीशान्तिनाथचरित्रे अतीव भीषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमोरेण ते प्रणष्टा घना इव ॥ २० ॥ क्व गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्सट्टशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्त्तिकाकरा । मम पार्श्वेऽबला काचिदाययौ भयकारिणी ॥२३॥ (युग्मम्) क्षयं नेष्यामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारोति चिन्तितम् ॥२४॥ ततोऽतिविधीभूता धृता वामकरे क्षणात् । मया वामकरणे षोत्पाटिताऽन्येन शस्त्रिका ॥ २५ ॥ मोटयित्वा मम करं बलाद्देव ! चचाल सा । मया चुरिया यान्तो दक्षिणोरौ च लक्षिता ॥ २६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो ! । अत्रान्तरेऽजिनोबन्धुरुदियाय दिवाकरः ॥ २७॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद् गृहीतं यत् त्वया वीरशिरोमणे ! ॥ २८ ॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ २८ ॥ (१) ख ज त - वो- । (२) ख ट त बन्नादेव |

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105