________________
११२
श्रीशान्तिनाथचरित्रे
अतीव भीषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमोरेण ते प्रणष्टा घना इव ॥ २० ॥ क्व गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्सट्टशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्त्तिकाकरा । मम पार्श्वेऽबला काचिदाययौ भयकारिणी ॥२३॥ (युग्मम्) क्षयं नेष्यामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारोति चिन्तितम् ॥२४॥ ततोऽतिविधीभूता धृता वामकरे क्षणात् ।
मया वामकरणे षोत्पाटिताऽन्येन शस्त्रिका ॥ २५ ॥ मोटयित्वा मम करं बलाद्देव ! चचाल सा । मया चुरिया यान्तो दक्षिणोरौ च लक्षिता ॥ २६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो ! । अत्रान्तरेऽजिनोबन्धुरुदियाय दिवाकरः ॥ २७॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद् गृहीतं यत् त्वया वीरशिरोमणे ! ॥ २८ ॥
परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् ।
मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ २८ ॥
(१) ख ज त - वो- ।
(२) ख ट त बन्नादेव |