________________
तृतीयः प्रस्तावः ।
स्वनामाङ्कं च तद्दृष्ट्वा म दध्यों किमहो मम । कन्यकेवाभवन्मारी बत्तम्या भूषणं हाटः ॥ ३० ॥ देहचिन्ताऽपदेशेन ततश्चोत्याय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामालोकयत् ॥ ३१ ॥ दृष्ट्वा वामकरं तस्या गतालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वज्राहत इवाभवत् ॥ ३२ ॥ श्रचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥ ३३ ॥ नृशंसोऽस्रनृताभाषौ कुशौलञ्चञ्चलाशयः ।
स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ ३४ ॥ न यावन्नगरीलोकं निखिलं मारयत्यसौ ।
२१३
तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥ ३५ ॥ विचिन्त्यैवं वल्लित्वा' चापृच्छन्मित्रं महीपतिः । भद्र ! किं माहमेनैव मृतकं रक्षितं त्वया ॥ ३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुल क्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ ३७ ॥ कृत्वैकान्तमयाचख्यौ राजा यदु भद्र ! मे सुता । मारो, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ ३८ ॥ मित्रानन्दोऽवदद्दाक्यं घटते देव! नेदृशम् ।
यत्कुमारो भवेन्मारी समुत्पन्ना कुले तव ॥ ३८ ॥
(१) घ ज झ -प्तामवलोकयत् ।
२५