________________
श्रीशान्तिनाथचरित्रे
आपदेतविमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥ १४ ॥ अभ्यधाच्च नृपो मन्विन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥ १५ ॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥ १६ ॥ देवमानुषतिर्यकवकता एताश्चतुर्विधाः । धर्मस्यैव प्रभावन नश्यन्ति जगतीपते ! ॥ १७ ॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ। तो तेपाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥ १८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लवितौजसा ।
आवामपि करिष्यावस्तथैव त्वं विषीद मा ॥ १८ ॥ मित्रानन्दोऽवदद् ब्रूहि कर्तव्यं हे वयस्य ! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदो निजम् ॥ २० ॥ तस्य चित्तपरीक्षार्थं पुनर्मित्रोऽब्रवीत् सखे ! । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥ २१ ॥ कालेन कियता तेन यच्छबेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥ २२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः । मया सौख्यमसौख्यं वा भोक्तव्यं च त्वया सह ॥ २३ ॥ | ततश्च कृतसङ्केतौ राहानिःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥ २४ ॥