________________
तृतीयः प्रस्तावः ।
विनिवार्य निजान् पत्तीन् मेनामुख्यानदोऽवदत् । यथा नयत मां पार्व मेकवारं महीपत: ॥ ३॥ तथा चक्रे च तैम्तस्याभवद्राजा परामखः । तत्राप्यभिमुखीभूय म नत्वेवं व्यजित पत् ॥ ४ ॥ मया मुक्ताऽम्ति या राजन् ! मञ्जूषा मा निरूप्यताम् । गृहीत्वा तहतं वस्तु पथात् कुर्याद्यथोचितम् ॥ ५ ॥ राजा प्रोवाच द्रव्ये गा मां विलोभ्य ममोहमे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥ ६ ॥ मन्त्राचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि । परं प्रमादो मञ्जुषाऽवलोके क्रियतां मम ॥ ७ ॥ ततस्तस्योपरोधेन लोकाभ्यर्थनया तथा । उहाटयामाम सर्वान् मञ्जपातालकान् नृपः ॥ ८ ॥ मवेणीकमव्यपाणिं सामिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धिं तं बद्धक्रममुदक्षत ॥ ८ ॥ तं दृष्ट्वा विस्मयापत्रः पप्रच्छ मचिवं नृपः । किमेतदिति म प्रोचे नाहं जानामि किञ्चन ॥ १० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा । व्यलोकं चिन्तयन् मूलच्छेदायोपस्थितो मम ॥ ११ ॥ परमार्थ ममाऽऽख्याहोत्यक्तो राज्ञाऽब्रवीत्पुनः । स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥ १२ ॥ निर्दोषस्यापि पुत्रस्य दोष उत्पादितो मम । अन्यथैवं गोपितस्यावस्थाऽस्य कथमीदृशी ॥ १३ ॥