________________
श्रीशान्तिनाथचरित्रे।
राजा प्रोवाच हे मन्त्रिविदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् ॥ ८२ ॥ भूयोऽपि सचिव: स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदार्यो वञ्चयते नैव विपद्यपि धनादिना ॥ १३ ॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्र मङ्घ पूजयति स्म च ॥ ४ ॥ दीनानाथादिसत्त्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुद्घोषयामासाभयदानं च देहिनाम् ॥ १५ ॥ सन्नद्धकवचैः पुभिविविधायुधधारिभिः । ग्रहं च रक्षयामास तथा हयगजादिभिः ॥ ८६ ॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने । राजान्तःपुरमध्ये वागुदस्थादीदृशी स्फुटा ॥ ८७ ॥ यथा हि मन्त्रिण: पुत्रः सुबुद्धिर्नाम दुर्मतिः । राजपुत्त्रयाः केशपाशं छित्त्वा कापि ययावहो ॥ ८ ॥ तच्छत्वा कुपितो राजा दयो कमेंदृशं व्यधात् । अतिसन्मानितो मूर्यो मुमूर्षः सचिवात्मजः ॥ ८ ॥ अस्यापराध वयो मे सकुटम्बोऽपि मन्त्रासो। इति च ज्ञापयामास पार्षद्यानखिलांस्तत: १००। सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिग्रहे प्रेषीन्नराधिपः ॥ १ ॥ तदमात्यभटैरुद्धं ग्रहं चैत्यपुरः स तु । सुधीनिमिविष्टः सन् वृत्तान्तमशृणोदमुम् ॥ २ ॥