Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 11
________________ काण्डम् ] शक्तिवादः। 'इदं पदमिममर्थ बोधयतु' इति 'अस्माच्छन्दादयमों बोदव्यः' इति वेच्छा संकेतरूपा वृत्तिः । तत्र-आधुनिकसंकेतः परिभाषा तया चार्थवोधकं पदं पारिभाषिकं यया शास्त्रकारादिसंकेतितनदीवृद्धयादिपदम् । ईश्वरसंकेतः शक्तिस्तया चार्थबोधकं पदं वाचकं यथा गोत्वादिविशिष्टबोधकं गवादिपदं तद्धोध्योऽर्थों गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते । पुरुषादीनां घटादिपदार्थत्ववारणमवधेयम् । प्रतीतिरदेन शाब्दबोधग्रहणे च 'घटादिपदजन्यतावच्छेदकविषयत्वायत्त्वं घटादिपदार्थत्वम्' इत्येवं वक्तव्यं घटादिपदजन्यशाब्दबोधनिष्ठा या जन्यता तदवच्छेदकत्वं च घटादिविषयताया एत्र संभवति-अन्यूनानतिप्रसक्तत्वात् न तु नीलादिविषयतायास्तस्याः 'पीतो वटः' इत्यत्रासत्त्वेन न्यूनवृत्तित्वात् 'नीलः पटः' इत्यादौ च सत्त्वेनातिप्रसक्तत्वाद् अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वस्वीकारादू अतिप्रसक्तधर्मस्यावच्छेदकत्वस्वीकारेपि न्यूनवृत्तिधर्मस्य सर्वथैवावच्छेदकत्वासंभवात् तादृशविषयतावत्त्वं च घटादावेव न नीलादाविति न नीलादेर्धटपदार्थत्वापत्तिरिति संक्षपः । न्यायमते संकेतस्येच्छारूपत्वेन प्रथमं पदविशेष्यकसंकेतमाह-इदमिति, पदशब्दस्य प्रथमातत्वेन पदविशेष्यकत्वम्-प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारात, तथा च गोत्वाद्यवच्छिन्नविषयतानिरूपकबोधनिरूपितजनकताश्रयो गवादिपदमिति फलितं गोत्वाद्यवच्छिन्नविषयतानिरूपकत्वं बोधे तादृशबोधनिष्ठजन्यतानिरूपितजनकता च पदे इति स्पष्टमेव । अर्थविशे. व्यकसंकेतमाह--अस्मादिति, यथा गवादिपदाद् गवादिपदार्थो बोद्धव्यस्तथा च गवादिपदजन्यबोध विषयताश्रयो गवा दिकमिति फलितं गवादिपदजन्यबोधनिष्ठविषयितानिरूपितविषयताश्रयत्वं च गवादी स्पष्टमेव । एवं बोधादिविशेष्यकोपि संकेतः संभवति यथा-'गोत्वाद्यवच्छिन्नविषयको बोधो गवादिपदजन्यो भवतु' इति संकेतं द्विधा लिमजते-तति, आधुनिकसंकेतः जीवकृतः संकेतः परिभाषेत्युच्यते । तया परिभाषया । उदाहरति-यथेति, "यूखारूपो नदी'' इत्यनेन भगवता पाणिनिना नित्यस्त्रीलिङ्गानामीकारान्तानामूकारान्तानां च शब्दानां नदीसंज्ञा कृतेति तादृशशब्देषु नदीपदं पारिभाषिकम्, एवम् "वृद्धिरादैच" इत्येनेन वृद्धिपदमादैचोः पारिभाषिकम्, लोकप्रसिद्धार्थे तु शक्तिरेव-ईश्वरसंकेतसत्वात् । पित्रादिसंके. तितचैत्रादिपदं तु पुरुषादिव्यक्तौ शक्तमेव न पारिभाषिकम् शादोषि मिता नाम कुर्यात्' इत्याकारकश्रुत्यनुमितेश्वरेच्छाविषयत्वात् । शक्तिस्वरूपमाह-ईश्वरेति, ईश्वरस्य संके. तरूपा इच्छा शक्तिस्तस्याश्चाकारद्वयमुक्तमेव । तया शक्त्या बोधकं पदं वाचकमित्युच्यते । उदाहरति-यथेति, गोत्वादिविशिष्टगवाद्यर्थबोधकं गवादिपदं गवादिवाचकं तबोध्या शतया बोध एव गवादिपदार्थों वाच्य इत्युच्यते सः शक्त्या वोध्य एव गवादि स्पार्थः -मुखमिव प्रथमप्रतीतिविषवस्वाच्छन्यस्य मुख्यार्थत्वमित्या

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 216