Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(२) सादर्श:
[सामान्यवृत्त्या पदप्रतिपाद्य एव पदार्थ इत्यभिधीयते । ज्ञानापेक्षेति परस्पराश्रयो दोषः स्यात, वृत्तिपदस्य वृत्तिपदव्यवहार्यत्वपरत्वे च नायं दोषः, तथा च संकेत लक्षणां चोद्दिश्य वृत्तिपदव्यवहार्यत्वमत्र विधीयते । अर्थषदमप्यत्र वस्तुमात्रपरं न तु तत्पदामिधेयपरम्, अन्यथोक्तरीत्याऽन्योन्याश्रयः स्यात्-तत्पदामिधेयत्वज्ञानार्थमर्थनिरूपि. तत्वरूपवृत्तिपदार्थज्ञानापेक्षाया उक्तत्वात् ॥ किंवा 'शक्तिर्लक्षणा च वृत्तिपदव्यवहार्या' इत्येवं वृत्तिपदार्थज्ञाने जाते "वृत्त्या पदप्रतिपाद्यः” इत्यग्रिमवाक्येनाऽर्थपदार्थज्ञाने च जातेऽत्राऽर्थदस्य निवेशः कर्तव्यस्तथा च नाऽन्योन्याश्रयः ।
उक्तवाक्यघटकार्थपदार्थ व्याचष्टे-वृत्त्येति, "वृत्त्या" इति तृतीयार्थः प्रयोज्यवम्, पदेन प्रतिपाद्यः पदप्रतिपाद्यस्तृतीयार्थो जन्यत्वम्, प्रतिपाद्यः प्रतीतिविषयः विषयत्वं च प्रत्ययार्थस्तथा च वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयः पदार्थ इति संकलितोर्थः । प्रतीतिश्च शाब्दबोधः, अत्र यदि "वृत्त्या'' इति नोक्तं स्यात् किं तु 'पदजन्यशाब्दबोधविषयः पदार्थः' इत्येवोक्तं स्यात्तदा 'नीलो घटः' इत्यत्र अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताक: शाब्दबोधो भवति एतादृशशाब्दबोधविषयत्वं यथा घटस्यास्ति तथा नालस्याप्यस्त्येवेति नीलस्यापि घटपदार्थत्वं स्यादिति तद्व्यावृत्तये "वृत्त्या" इत्युक्तं तथा चात्र नीलस्य घटपदजन्यशाब्दबोधविषयत्वेपि नीले घटपदस्य वृत्तिर्नास्तीति नीलस्य नीलनिरूपितघटपदनिष्ठवृत्तिप्रयोज्यघटपदजन्यशाब्दबोधविषयत्त्वं नास्तीति न नीलस्य घटपदार्थत्वापत्तिः । किं पात्र प्रतीतिपदेनोपस्थि. तिर्लाह्या तथा च वृत्तिप्रयोज्यपदजन्योपस्थितिविषयत्वं पदार्थत्वमिति प्राप्तं नीलादेश्च घटादिपदजन्यशाब्दबोधविषयत्वेपि घटादिपदजन्योपस्थितिविषयत्वं तु नास्त्येव-नीलादिपदजन्योपस्थिति. विषयत्वादिति न नीलादेर्घटादिपदार्थत्वापत्तिः । नन्वेवमपि यत्र 'घटो घटपद शक्यो नीलश्च घटसम्बन्धी' इत्याकारा समूहालम्बनात्मिकोपस्थितिर्भवेत् तत्र घटपदनिष्ट्रवृत्ति प्रयोज्योपस्थितिविष. यत्वं यथा घटस्यास्ति तथा नीलस्याव्यस्त्येव-घटनीलयोरुभयोरप्येकोपस्थितिविषयत्वादिति नीलस्य घटपदार्थत्वापत्तिस्तदवस्थैवेति चेत् ? 'स्वनिष्ठवृत्तिविषयकज्ञानत्वावच्छिन्नजनकतानिरूपित. जन्यतावच्छेदकविषयतावत्वमऽर्थत्वम् ( पदार्थत्वम् ) इति वक्तव्यम्. अत्र च स्वं घटपदं तन्निष्ठा या वृत्तिस्तद्विषयकं यज्ञानत्वावच्छिन्नं ज्ञानम् 'घटो घटपदशक्यः' इत्याकारकं ज्ञानं तादृशज्ञाननिष्ठा या जनकता ( उपस्थितिजनकता ) सादृशजनकतानिरूपितं यदुपस्थितिनिष्ठ जन्यखं तादृशजन्यताया अवच्छेदकीभूता या विषयता तादृश विषयतावत्त्वं पदार्थत्वमित्यन्वयः। भत्रोपस्थिती जन्यताप्यस्ति निरूपकत्वसम्बन्धेन च विषयताप्यस्तीति विषयता जन्यतावच्छेदिका जाता सा च विषयता निष्ठत्वसंबन्धेन घटेस्ति घटपदजन्योपस्थितिनिरूपितैतादृशविष. यतावत्वं चोक्तस्थलेपि घटस्यैव भवति न नीलस्येति न नीलस्य घटपदार्थत्वापत्तिरिति सारः । एवमेव 'वटो घटपदशक्यः पुरुषो राजसंबन्धी' इत्यादिसमूहालम्बनात्मकोपस्थितिविषयत्येषि

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 216