Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 456
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ४७ ]/ गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः करणस्वभावा, द्वितीयादिषु क्षणेषु तत्करणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात्, ततः प्रथमेऽपि क्षणे सर्व सहकारिणां सम्भवात् सकलकार्यकरणप्रसङ्गः, अपिच - सहकारिषु सत्सु भवति कार्ये तदभावे च न भवति ततः सहकारिणामेवान्वयव्यतिरेकदर्शनात् कारणता परिकल्पनीया, न नियतेः, तत्र व्यतिरेकासम्भवात् उक्तं च- " हेतुताऽन्वयपूर्वेण, व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कुतो हेतुत्वसम्भवः १ ॥ १ ॥ अथैतदोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं, ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यय-यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारण भेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षी, ननु सानेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति, 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते 'ति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेतान्यतः १, यदि नियतेस्तस्याः स्वत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता?, अथ विचित्रकार्यान्यधानुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्य सम्पर्कमन्तरेण न घटामञ्चति, तततत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवाय omational For Parts Only ~ 456 ~ आज्ञनवाय धिकार: ५ १० १३ waryra

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528