________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४७ ]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
करणस्वभावा, द्वितीयादिषु क्षणेषु तत्करणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात्, ततः प्रथमेऽपि क्षणे सर्व सहकारिणां सम्भवात् सकलकार्यकरणप्रसङ्गः, अपिच - सहकारिषु सत्सु भवति कार्ये तदभावे च न भवति ततः सहकारिणामेवान्वयव्यतिरेकदर्शनात् कारणता परिकल्पनीया, न नियतेः, तत्र व्यतिरेकासम्भवात् उक्तं च- " हेतुताऽन्वयपूर्वेण, व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कुतो हेतुत्वसम्भवः १ ॥ १ ॥ अथैतदोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं, ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यय-यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारण भेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षी, ननु सानेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति, 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते 'ति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेतान्यतः १, यदि नियतेस्तस्याः स्वत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता?, अथ विचित्रकार्यान्यधानुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्य सम्पर्कमन्तरेण न घटामञ्चति, तततत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवाय
omational
For Parts Only
~ 456 ~
आज्ञनवाय धिकार:
५
१०
१३
waryra