SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४० ] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४७]/गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयनिरीया नन्दीवृत्तिः ॥२२३॥ र्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्ययुक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत् किंच-अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौ कते-तद्धि मूर्त्तं वा स्यादमूर्त्त वा?, यदि मूर्त्त तर्हि नामान्तरेण कम्मैव प्रतिपन्नं यस्मात्तदपि कर्म्म पुद्गलरूपत्वात् मूर्त्तमनेकं चास्माकमभिप्रेतं भवताऽपि च नि यतिरूपं तत्त्वान्तरमनेकं मूर्त्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्त्तमित्यभ्युपगमस्तर्हि न तत्सुखदुःखनिबन्धनम्, अमूर्त्तत्वात्, न खल्वाकाशममूर्त्तमनुग्रहायोपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधान समर्थत्यात्, "जमणुग्गहोवघाया जीवाणं पुग्गलेहिंतो" इति वचनात् अथ मन्येथाः - दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि - मरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु तु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थितानामेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-- मरुस्थलीप्रायासु भूमिषु जलविकलतया न तथाविधा धान्यसम्पत्, वालुकाकुलतया चाध्वनि प्राणिनां गमनागमनविधावतिशायी पदे २ खेदो निदाघे च खरकिरण तीव्र करनिकरसम्प|र्कतो भूयान् सभ्तापो जलाभ्यवहरणमपि खल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेषेषु तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामेवानुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्तदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्तत्ययोगतः कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलाद्युपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्ड एवं तस्माचोप Ja Eucation International For Parts Only ~ 457 ~ अज्ञानवाद्यधिकारः २० ॥२२ २५
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy