Book Title: Sandeh Samucchay Author(s): Manikyasagarsuri Publisher: Ramanlal Jaychand Shah View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह यदि जैनवचोऽनुसारिभिः, कुगतिस्तस्य विचार्य कथ्यते । तदहो! द्विजपुङ्गवाः कथं, विवदन्ते लकुटैः करस्थितैः? ॥३५॥ माण्डव्यं प्रति यमस्य वाक्यम्पतंगिकायाः पुच्छे तु, त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं, फलमेतत्तपोधन! ॥३६॥ अथ-स नामदाग्न्यो न हरेविभागो, भागः कथं दाशरथिः स एव ?। उभौ च चेत्तर्हि कयं स्वयंस, स्वस्यैव जेता वद कोऽत्र हेतुः ॥३७॥ अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म समाचरेत् ॥३८॥ निःसन्ततेर्यत्सुगते निषेध, पौराणिकाः प्राहुरदोऽप्यसत्यम् । भीष्मः कुमारः शुकनारदाद्याः, स्वर्ग गता वा नरकं प्रयाताः ?॥३९॥ अत्रैव भारतेअनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि राजेन्द्र!, अकृत्वा कुलसन्ततिम् ॥४०॥ असूत भारती देवी, सुतं सारस्वताभिधम् । आबालब्रह्मचार्येव, वनवासं जगाम सः ॥४१॥ मदालसायास्तनया, बालत्वेऽपि वनं गताः। स्वर्गश्च समभूत्तेषां, नवेति प्रतिपाद्यताम् ! ॥४२॥ अथ-स्वर्गकामो यजेताग्नि-मित्यसत्यं वचो ध्रुवम् । 'न कर्मणा न प्रजये त्यादि वाक्यं न किं श्रुतम् ? ॥४३॥ 'न कर्मणा न प्रजया न धनेन योगेनैकेनामृतत्वमानशुः ।। विश्वामित्रकृता सृष्टि छागादीनां निगद्यते । यष्टव्यमित्यजेर्वाक्यं, वेदमध्ये कथं स्थितम् ? ॥४४॥ अथ-श्रूयते हि पुरा कल्पे, नणां श्री हिमयः पशुः । येनायनंश्च यज्वानः, पशुकर्मपरायणाः ॥४५॥ ऋषिभिः संशयं पृष्टो, वसुश्चदिपतिः पुरा। अभक्ष्यमिति मांस च, प्राह भक्ष्यमिति प्रभो! ॥४६॥ For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46