Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
सन्देह
शद्रोपि शीलसम्पन्नो, गुणवान् ब्राह्मणो भवेत् ।।
ब्राह्मणस्तु क्रियाहीनः, शुद्रापत्यसमो भवेत् ॥१९६॥ सद्यः पतति मांसेन, लाक्षया लवणेन च ।
त्र्यहेण शूद्रीभवति, ब्राह्मणः क्षीरविक्रयी ॥१९७॥ सर्वजातिषु चाण्डालाः, सर्वनातिषु ब्राह्मणाः ।
ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ॥१९८॥ असच्छूद्रा अशूद्राश्च, कल्पनेयं कृता वृथा ।
ग्रन्थे तल्लक्षणश्रेणिः, स्वापि सन्दर्यतां ततः ॥१९९॥ यतः-न क्षत्रियैर्भाति पुरं मनोज्ञ, न ब्राह्मणैः कारुजनै घनैर्न ।
तदेव रम्यं नृपतिः स एव, महाजनो यत्र वसत्यनन्तः ॥२०॥ भारते-न योनि पि संस्कारो, न श्रुतिर्नापि सन्ततिः ।
कारणानि द्विजत्वस्य, वृत्तमेव तु कारणम् ॥२०१॥ ब्रह्मस्वभावः कल्याणि !, समः सर्वत्र दृश्यते ।
निर्मल सकलं ब्रह्म, यत्र तिष्ठति स द्विनः ॥२०२।। न दर्भव्यग्रपाणिस्तु, न कमण्डलुसूचितः ।
न धौतवसनं बिभ्रजातो नग्नस्तु केवलम् ॥२०३॥ ब्रह्मबीनं तदाप्यासीत् , संस्काराच नतिः पुनः ।
क्यमेतदुक्तं वाक्यं, ब्रह्मबीन ! नमोऽस्तु ते ॥२०४॥ ब्राह्मणा मुखतो जाता, ब्राह्मण्यस्तु कुतोऽभवन् ।
यद्येकत्र ततो यामिः , सङ्गस्तेषां न युज्यते ॥२०॥ चेत्पृथग्वर्णसम्भूतास्ततोऽभूद्वर्णसङ्करः ।।
___ वर्णसङ्करजातानां, ब्राह्मण्यं गतमेव वै ॥२०॥ ये नीचस्थानतो जाता, योनौ कुर्वन्तु ते रतिम् ।।
ये पवित्रान्मुखाजाता-स्तेषां तत्र रतिं कुतः ? ॥२०७॥ एकस्मात् स्थानतो जन्मक्रियाः षष्ठ्यादिकाः समाः। पश्चात् तन्तुत्रयोत्क्षिप्ते, द्विनोऽहमिति किं मदः ? ॥२०८॥
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46