Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org भयमेवं समुत्पाद्य, जन्मेजय निदर्शनात् । Acharya Shri Kailassagarsuri Gyanmandir स्वैरं विप्रा विलसत, हेत्वातङ्कविवर्जिताः ॥ २४४ ॥ अशक्यपरिहार्येऽर्थे, द्विजानामेवमुत्तरम् । सन्देह विष्ठाशी सर्वदा पूतः काकः केन गुणेन च । द्विजैः पवित्रं मन्वानै ज्यादौ पूज्यते सदा ॥ २४५ ॥ वैश्वदेवस्य देवानां पितॄणां पूजनक्षणे । काकस्य दीयते पक्तिरपवित्रस्य किं द्विजैः १ ॥ २४६ ॥ कथयन्ति मुखे शौचं संस्कारेष्वखिलेष्वपि । गृह्णन्ति कोरवस्त्राणि, मासाहसखगोपमाः ॥२४७॥ नित्यं शुद्धः कारुहस्तः, पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्ष्यं, सर्व मेध्यमिति स्मृतिः ॥ २४८ ॥ ब्राह्मण्या भाण्डमुत्क्षिप्तं, परिवेषणहेतवे । तत्स्पृष्टमपि न त्याज्यं, यावद्भूमौ न मुच्यते ॥ २४९॥ भूमिमुक्तं तदेव स्यात्, तद्भाण्डं त्याज्यमेव हि । एतावदपवित्रा भूर्ब्राह्मणी तु सदा शुचिः ॥२५०॥ - भोजनावरे विप्राः, पृथगासनसंश्रिताः । भुञ्जानाः स्वं स्पृशन्तोपि, भूमेर्योगाच्च दूषिताः ॥ २५१ ॥ यद्येवम् गोमयेनोपलिप्ता भूः, शुद्धा स्यादिति निश्चयः । एकवेल विलिप्यैषा, मुच्यते किं पुनः पुनः १ ॥ २५२ ॥ अथ - यथा प्रक्षालितं वस्त्रं पवित्रं मन्यते द्विजैः । तद्वत् स्वयं कृतं भाण्ड मपि नादीयते कथम् ? ॥ २५३॥ कुलाल: शूद्र एव स्यात् तेन पक्वं स्ववह्निना । विप्रैः पवित्रं मन्वानैर्भाण्डमादीयते कथम् ? ॥ २५४॥ ब्राह्मणानां हि भाण्डस्थं, पूतमन्नं तदप्यहो । अपतं वणिजां दृष्टिगोचरे स्यात् समागतम् ॥ २५५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46