Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री आगमोद्धारक ग्रन्थमालाया नवमं रत्नम् ॐ नमो जिनाय
आगमोद्धारक - आचार्यप्रवरश्री-आनन्दसागरसूरीश्वरेभ्यो नमः श्रीवादिदेवसूरिसन्तानीयश्रीज्ञान कलशसूरिनिर्मितः
सन्देहसमुच्चयः॥
कपडवंज
(जि. खेडा )
卐
संशोधकः गच्छाधिपतिआचार्यश्रीमन्माणिक्य सागरसूरिः ।
संवत्
२०११ श्रावणबहुलाष्टमी प्रति १००
प्रकाशक :
अणलाल जयचंद शाह
मूल्यम्
०-७५ नये पैसा
मुद्रक:
सहकारी छापखानुं, राजपुरा, वडोदरा. मंगलभाई वेरीभाई पटेल मेनेजर.
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभागमोद्धारक ग्रन्थमालाया नवम रत्नम्
ॐ नमो जिनाय आगमोद्धारक-आचार्यप्रवरश्री-आनन्दसागरसूरीश्वरेभ्यो नमः
श्रीवादिदेवसूरिसन्तानीयश्रीज्ञानकलशसूरिनिर्मितः
सन्देहसमुच्चयः॥
संशोधकः गच्छाधिपति
आचार्यश्रीमन्माणिक्यसागरसूरिः। संवत्
मूल्यम् २०१५ श्रावणबहुलाष्टमी प्रति ५००- ०-७५ नये पैसा प्रकाशक :
मुद्रक:रमणलाल जयचंद साह सहकारी छापखानु, रावपुरा, वडोदरा. कपडवंज
मंगलभाई वेरीभाई पटेल (जि. खेडा)
मेनेजर.
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राप्तिस्थानो
१ श्रीमानन्दपुस्तकालय सुरत गोपीपरा
Acharya Shri Kailassagarsuri Gyanmandir
२ श्री आगमोद्धारकग्रन्थमाला ठे. मीठभाकपाणन्दमी पेढी कपडवंज (जी. खेडा)
३ श्रीसरस्वतीपुस्तकभण्डार
अमदाबाद ठे. रतनपोल हाथीखाना
साभार स्वीकार
वडोदरा निवासी स्व. शेठशान्तिलाल रंगीलदासना
पुण्यस्मरणार्थे तेओश्रीना पिताश्रीधर्मनिष्ठश्री.
रंगीलदास छगनलाले रु १०१. ग्रन्थमालाने भेट अर्पण कर्या छे.
'प्रकाशक
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किश्चिद् बकमध्यम
अस्मिन् श्रीमज्जैनशम्सरसहोदधौ प्रचुराणि ग्रन्यरत्वानि वर्तन्ते । तन्मध्यात् इंई सन्देहसमुदायभिधानं ग्रन्थरत्नं विदुषां करसरोरुहे समर्प्यते । अस्य ग्रन्थस्य रचयितारः वृद्धगच्छीयवादिदेवसूरीश्वरपरम्परायां श्रीनयमङ्गलसूरीश्वर-तच्छिष्यश्रीअमरचन्द्रसूरीश्वातत्पट्टधरश्रीधर्मघोषसूरीश्वरतच्छिष्याः श्रीधर्मतिलकसूरीश्वराणां गुरुभ्रातरश्च श्रीज्ञानकलशसूरय एव, इत्येतत्प्रशस्त्यवलोकनात् स्पष्टमेवेति । अत्र वेदस्मृतिपुरा गादिषु परस्परविरोधमानां वदव्याघातरूपाणां असम्भवितानां बहूनां वचसां चर्चाऽस्ति । भित्र ग्रन्थरत्ने दृष्टिदोषादिना क्वचनाशुद्धिः सञ्जाता भवेत् तत्र शोधनीयं विज्ञैरिति प्रार्थयते
वटपद, श्रावणबहुलाष्टमी
-चन्दनसागरगणिः
प्रकाशकीय-निवेदन
प०१० गच्छाधिपति आ० श्रीमाणिक्यसागरसूरीश्वरजी महारान आदिठाणां वि. सं. २०१० ना वर्षे कपडवंजशहेरमा मीठाभाइगुलालचंदना उपाश्रये चातुर्मास बीरान्या हता आ अवसरे तेओश्रीना पवित्र आशीर्वादे आगमोद्धारकग्रन्थ मालानी स्थापना थयेली हती. आ ग्रन्थमालाए त्यारवाद प्रकाशनोनी प्रगति ठीक ठीक करी छे. सदर 'सन्देहसमुच्चयः' नी प्रेसकोपी प० पू० स्व गुरुदेव आगमोद्धारक आचार्यप्रवरश्री- आनन्दसागरसूरीश्वरजीए करावेली श्रीजनानन्दपुस्तकालय (सुरत) मा हती तेने जुदा जुदा भण्डारोनी हस्तपोथीओ साथे मेळवी तेनी फरीथी प्रेसकोपी पृ० गणिवयश्रीचन्दनसागरजी
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाराजे करी अने तेनुं संशोधनपणानुं कार्य प० पू० गच्छाधिपति आ. श्री. माणिक्यसागरसूरिजीनी पूनीत दृष्टि नीचे थतां प्रूफो आदिमा पण तेओए सारो सहकार आप्यो छे ते माटे हुं. तेओश्रीनो ऋणी छु, तेओश्रीनी पुण्यकृपाए आ “सन्देहसमुश्चय ' नामना अन्थने आगमोद्धारकग्रन्थमालाना नवमा रत्न तरीके प्रगट करतां मने अतिहर्ष थयो छे.
रमणलाल जयचंद शाह
ko-ki
शुद्धिपत्रकम्
शुद्धम्
अशुद्धम् टे०
१ १६-२३
कोशिकः २ १३ मां धात दाग्न्यो ४६ .
कुम्भभूः कौशिकः मांधात ० दान्यो
षो०
शेषी दिवस इत्यधिक
२५ ४ २९ १४ ३२ २६
शेषाः दिवा
इत्यधिक
वहि०
४० १५
भवा. बहि०
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमो जिनाय ॥ ॥ आगमोद्धारक-आचार्यप्रवर-श्री-आनन्दसागरसूरीश्वरेभ्यो नमः ॥ श्रीवादिदेवसूरिसन्तानीय-श्रीज्ञानकलशसरिनिर्मितः
सन्देहसमुच्चयः।
सदभूतभावप्रविकाशनक-भानुप्रभं वीरजिनं प्रणम्य ।
सम्मील्य सन्देहपदानि वक्ष्ये, कियन्त्यपि प्राकृतबोधहेतोः ।।१।। कोपे सति स्यात्कुत एव मुक्तिः, कामेऽथवा त-प्रतिबन्ध एव । रागेऽपि च स्यान्न फले विशेषस्तस्मान्न चैते हृदयेऽवधार्याः ॥२॥ ब्रह्मापि पुत्रीमवशंवदात्मा, वृद्धोऽपि किं स्वां चकमे न मोहात् है । पीनस्तनीभिः सह गोपिका भिलक्ष्मीपतिः सोपि चिरं चिखेल ॥३॥
स नीलकण्ठस्त्रिपुरस्य दाहं, कोपाद्वितेने गगनस्थितस्य । पूषान्धकादीश्च मृधे जघान, मुक्तिप्रदः स्यात्कतमस्त्वमीषु ॥४॥ तपस्विशापान्न कयं विनष्टा, पारिका यादवम ण्डिताऽपि ? । हरिभ्रमन् काननमध्यदेशे, बाणप्रहारान्न कथं विनष्टः? ॥५॥ तथा न गाधेस्तनयः सहस्र, संवत्सराणां च ततान युद्धम् । समं वशिष्ठेन ततश्च कोपान्ममाथ तत्पुत्रशतं जवेन ॥६॥ निमन्त्रितः पारणकाय हर्षात् , कुशारणिः प्राग्मधुसूदनेन । सरुक्मिणीकं रथयुग्मरूपं, प्रतोदनात् तं स चकार काणम् ॥७॥ किं नारदः कोपवशान्न विष्णु, चकार नारी जनहास्यहेतुम् ? तपस्विभिलिङ्गनिपातनातिक, विगोपितो न प्रथितस्त्रिनेत्रः ? ॥८॥ उक्तं चभार्याऽप्यहिल्या किल गौतमस्य, क्रुद्धस्य शापेन शिला बभूव । नीतो वशिष्ठेन रुषाभिशप्त-श्चाण्डालतां भूमिपतिस्त्रिशङ्कः ॥२॥
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
पाण्डुः प्रियाकण्ठविलानबाहुर्ययौ स्तनन्यस्ततनुर्यदन्तम् । दग्धः परीक्षिः फणिफूत्कृतेर्यत् तपस्विकोपस्य विज़म्भितं तत्॥१०॥ किं गौतमः कोपवशात् सुरेश, पूर्व भगव्याप्ततनुं न चक्रे ?। दुर्वाससः शापवशान्न देवी, सरस्वती मानुषतामवाप ? ॥११॥ मुनीन्द्रशापान्न कथं धरित्री, जगाल कर्णस्य रथं समाजे ? । तस्यैव शस्त्राण न जामदग्न्यः, कोपारुणः किं विफलीचकार ? ॥१२॥ न कुम्भभूः किं कुपितः समुद्र, ग्राहैरुपेतं जठरं निनाय ? । पुनः स एव प्रवितीर्य शापं, भूपं न सर्प नघुषं च चक्रे ?। ॥१३॥ न स्त्री दुष्यति जारण, स्मृतिवाक्यं स्मरन्नपि । जमदग्निः प्रियाशीर्ष, सुतेनाच्छेदयत् क्रुधा ॥१४॥ चकर्त्त शीर्ष स्वरेण मातुनिःक्षत्रियां यः पृथिवीं चकार । स्नाति स्म तेषां रुचिरैस्त्रिकालं, सोऽप्युच्यतेऽर्मधुसूदनांशः ॥१५॥ न कौशिकः किं शरदां सहस्त्रं, रागान्निषेवे किल मेनका ताम् ? तथा जरत्कारुमुनिर्न वृद्ध-भावेऽपि कामेन विम्बितः प्राक? ॥१६॥
शुक्रस्य शापान्नृपतिर्ययातिलेभे जरां तां तनये निनाय । वर्षान् सहस्रं विषयोपभोग-माधाय तृप्तः पुनराददे स्वाम् ॥१७॥ दत्ता सती याति यदन्यदेहं, स्थानं समभ्येति पुनर्गहीता । गतागतं चेत्कुरुते तदित्यं, सन्दर्यतां कौतुकमाशु किश्चित् ॥१८॥ द्रोणो रणे पाण्डवकौरवाणां, द्विनोपि जज्ञे न यमावतारः ? यत् सौप्तिके पर्वणि तस्य शालः, सुतोपि चक्रे वचनातिगं तत् ॥१९॥ परासरः कामवशान्न कन्या, दिवा सिषेवे यमुनामलस्थः । व्यासस्तु बन्धोर्दयिताद्वयस्य, वैधव्यविध्वंसकरो न जज्ञे ? ॥२०॥ कोपेन कश्चिन्मदनेन कश्चिद्, रागेण कश्चिच्च परीतदेहः । विहाय सर्वोश्च विमुक्तिहेतोः, श्रीवीतरागं शरणं विधेहि ॥२१॥ वैदैः पुराणैः स्मृतिभिश्च येषां, मनांसि नित्यं परिगर्वितानि । पृच्छामि सन्देहपदानि तेषां, समीपतः शास्त्रविरोधभाञ्जि ॥२२॥
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
यवनाश्वनरेश्वरः किला-त्मजहेतोनिमन्त्रितं जलम् । तृषितस्तु पपौ ततः परं, जठरं वृद्धिमियाय भूमुजः ॥२३॥ मिमिलुस्तनयस्य निर्गमे, सुरकोट्यो बहवः समाकुलाः । उदरं स विदार्य निर्गतः, सुरशक्त्या जनकश्च जीवितः ॥२४॥ परिपालयिता स्तनन्धयं, कतमस्तेषु सुरेषु कथ्यताम् । त्रिदशाधिपतिस्ततो जगौ, ननु मां धास्यति कोऽत्र सम्भ्रमः ॥२५॥ परिवृद्धिमुपागतः क्रमात् , स तु मां-धातृ इति प्रथां गतः ।
इदमप्यभिधीयते शठ-रपरैः प्रीतिपरैश्च मन्यते ॥२६॥ न स्थूलमुदरं जज्ञे, विश्वैरन्तःस्थितैर्ह रेः ।
एकेन बलिना स्थूलं, कयं जातं विमृश्यताम् ? ॥२७॥ पुत्रिका अप्यवध्याः स्युः, स्वकृता बालकैरपि ।
हरिस्तु नीतवानन्तं, कथं स्वाङ्गे धृतं बलिम् ? ॥२८॥ नरकादतिरिच्यतेतरां, जननीगर्भगतस्य वेदना। .
सहरिः किल तां च यातना-मवतारैर्दशभिर्विषोढवान् ॥२९॥ अथ कृष्णभवे किरीटिनो, रथिनः सारथितामुपेत्य च ।
वनखाण्डवदाहवासरे, स मुधा पापचयस्य भागभूत् ॥३०॥ धृतराष्ट्रजपाण्डुनन्मनो, रणकर्मण्यखिलेऽपि साक्षिणः।।
शबरस्य करोपघातिनः, सुगतिं जल्पत केन हेतुना ? ॥३१॥ प्रविधाय विधि जनार्दनं, सुगति कश्च निनाय दुर्गतेः ।
तटिनी त्रिदिवाध्वनोऽर्गलां, सुरभेः पुच्छमृतेऽतरत्कथम् ॥३२॥ यतस्तेनैवावसाने उक्तम्
चतुर्दशकोटिशत-वासराणां परेऽहनि । ....... मया रामभवे पाप-मका रि सुमहत् पुनः ॥३३॥
अकृतस्यागमो नास्ति, कृतनाशो न विद्यते । (अ) युध्यमानो हतो वाली, तस्येदं कर्मणः फलम् ॥३४॥
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
यदि जैनवचोऽनुसारिभिः, कुगतिस्तस्य विचार्य कथ्यते ।
तदहो! द्विजपुङ्गवाः कथं, विवदन्ते लकुटैः करस्थितैः? ॥३५॥ माण्डव्यं प्रति यमस्य वाक्यम्पतंगिकायाः पुच्छे तु, त्वयेषीका प्रवेशिता ।
कर्मणस्तस्य ते प्राप्तं, फलमेतत्तपोधन! ॥३६॥ अथ-स नामदाग्न्यो न हरेविभागो, भागः कथं दाशरथिः स एव ?।
उभौ च चेत्तर्हि कयं स्वयंस, स्वस्यैव जेता वद कोऽत्र हेतुः ॥३७॥ अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च ।
तस्मात् पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म समाचरेत् ॥३८॥ निःसन्ततेर्यत्सुगते निषेध, पौराणिकाः प्राहुरदोऽप्यसत्यम् । भीष्मः कुमारः शुकनारदाद्याः, स्वर्ग गता वा नरकं प्रयाताः ?॥३९॥ अत्रैव भारतेअनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् ।
दिवं गतानि राजेन्द्र!, अकृत्वा कुलसन्ततिम् ॥४०॥ असूत भारती देवी, सुतं सारस्वताभिधम् ।
आबालब्रह्मचार्येव, वनवासं जगाम सः ॥४१॥ मदालसायास्तनया, बालत्वेऽपि वनं गताः।
स्वर्गश्च समभूत्तेषां, नवेति प्रतिपाद्यताम् ! ॥४२॥ अथ-स्वर्गकामो यजेताग्नि-मित्यसत्यं वचो ध्रुवम् ।
'न कर्मणा न प्रजये त्यादि वाक्यं न किं श्रुतम् ? ॥४३॥ 'न कर्मणा न प्रजया न धनेन योगेनैकेनामृतत्वमानशुः ।। विश्वामित्रकृता सृष्टि छागादीनां निगद्यते ।
यष्टव्यमित्यजेर्वाक्यं, वेदमध्ये कथं स्थितम् ? ॥४४॥ अथ-श्रूयते हि पुरा कल्पे, नणां श्री हिमयः पशुः ।
येनायनंश्च यज्वानः, पशुकर्मपरायणाः ॥४५॥ ऋषिभिः संशयं पृष्टो, वसुश्चदिपतिः पुरा।
अभक्ष्यमिति मांस च, प्राह भक्ष्यमिति प्रभो! ॥४६॥
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
समुच्चयः ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकाशान्मेदिनीं प्राप्तस्ततोऽसौ मेदिनीपतिः । एवमेव पुनश्वोक्त्वा, विवेश धरणीतलम् ॥४७॥
अथ महाभारते शान्तिपर्वणि पाण्डवदाहावसरेप्रागू विप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्या पायं नैवापायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं हृतसुतकृतये शाङ्गिकायां स्म सुते, यत्पुत्राणां चतुष्कं प्रणतिभिरमुनाऽमोचि वह्नेस्ततस्तत् ॥ ४८ ॥ ते तक्षकसुतोऽश्वसेनः मयश्च सप्तमः कोपि न । महाभारते शान्तिपर्वणि—
-
रंतिदेव नरेन्द्रेण, गोमेधा बहवः कृताः ।
तेषां च रुधिरैर्घोरा, प्रावर्त्तत महानदी ||४९ ॥ चर्मण्वतीति विख्याता, सा जने : तीर्थमुत्तमम् । तस्याः स्नानेन शुद्धि: स्यान्, मोहस्य ललितं हि तत् ॥५०॥ द्विधा ऋषय:- एके निवृत्तमांसा एकेऽनिवृत्तमांसाः । ये निवृत्तमांसास्तेषां दधिमधुमिश्रो मधुपर्क:, ये त्वनिवृत्तमांसास्तेषामभ्यागताय श्रोत्रियाय महोक्षं वा महाजं वा वत्सतरीं वा पचतिगृहमेधिनः ॥ इतिवेदे | महोक्षं वा महाजे वा पच्यते वत्सतर्यपि ।
येषां हेतोः क्षत्रियास्ते, ब्राह्मणा वा निगद्यताम् ॥ ५१ ॥ क्षत्रियाश्चेत्कृतं तेषां वार्त्ताभिः पापकारिणाम् ।
,
ब्राह्मणा यदि तत्तेषां म्लेच्छानां च किमन्तरम् ॥५२॥
नैषधे कलिस
अधावत् क्वापि गां वीक्ष्य, हन्यमानामयं मुदा । अतिथिभ्यश्च तां ज्ञात्वा मन्दं मन्दो न्यवर्त्तत ॥ ५३ ॥ गोमेवो नरमेधश्च, अक्षता च कमण्डलुः ।
कलौ पञ्च न विद्यन्ते, देवरः पुत्रकाम्यया ॥५४॥
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
n
सन्देह
-
कन्दमूलफलाहारा, जटिलाः श्वापदोपमाः ।
मांसेन गौरवं तेषां, मौदकाद्यैर्न किं भवेत् ? ॥१५॥ यूपं कृत्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् ।
यो गम्यते स्वर्ग, नरके केन गम्यते ? ॥१६॥ सर्वेषामेव देवानां, वक्त्रं वैश्वानरो मतः ।।
सर्व पूतमपूतं वा, तेनात्तं तन्मुखे विशेत् ॥१७॥ आहोश्चिन्मन्त्रपतं यत , तत्तेषां वदने विशेत् ।
मन्त्रहीनं तु यमुक्तं, तत्किं कर्णादिके पुनः ॥ ५८॥ अत्याहाराद्रोगवृद्धि-रिति सत्यापितं वचः ।
घृतस्यात्यशनादमिं, वदद्भिः कुष्ठसङ्कलम् ॥५॥ उक्तंच-अग्नौ आन्याहुतिः सम्य-गादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टि-वृष्टेरन्नं ततः प्रजाः ॥६॥ । एकत्र वृष्टिरिन्द्राच्चापरत्र नृपतेः पुनः ।
. वडूः समुद्रात सूर्याच्च, कुतोऽपि स्यात् न बुध्यते ॥६१॥ वहिरेकान्ततः पूतोऽपवित्रो वेति कथ्यताम् ।
पवित्रोऽन्त्यनगेहात्तद, द्विजैरादीयते न किम् ? ॥१२॥ अपूतश्चेत् कथं तस्माद्वस्तूनां शुद्धिरुच्यते ?
औपाधिके च पावित्र्ये, माहात्म्यं ज्वलनस्य किम् ? ॥६३॥ अथासौ विप्ररोहस्थः, पवित्रो नेतरः पुनः ।
धूमे दाह्ये च कीलाया-मन्तरं तर्हि दर्यताम् ॥६॥ विप्ररोहस्थितो नित्यं, तय॑ते सर्ववस्तुभिः ।
सुवर्णपुरुषस्तस्मानिःसरन्नावलोक्यते ॥६५॥ केवलं दृश्यते भस्म, द्वयोरपि हि तत्समम् ।
तत् कयं वणिजां स्पर्शाद्विप्रा; क्रोधमवाप्नुयुः ? ॥६६॥ गृहीत्वा गुडधेनुं च, तां पृथक् कुर्वतो द्विजाः।
श्वपचा इव दृश्यन्तेऽधिका वा सर्वभक्षणात् ॥६॥
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
युगानामेव मूर्द्धन्यं, कलि मन्यामहे वयम् ।
धेन्वादीनां वधो यत्र, निषिद्धो द्विजहस्ततः ॥६॥ नश्यन्तोऽपि रटन्तोऽपि, बलिभिर्दुबलाः पुनः ।
हन्यन्ते पशवः पापैः, खादकैर्धर्मकेतवात् ॥६९।। भारते-एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥७॥ इन्द्रियाणि पशून कृत्वा, वेदी कृत्वा तपोमयीम् ।
अहिंसामाहुतिं कृत्वा, आत्मयज्ञं यजाम्यहम् ॥७१॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थबाधकैः ।
शममन्त्रहुतैर्यज्ञं, विधेहि विहितं बुधैः ॥७२॥ ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते ।
असत्कर्मसमित्क्षेपै-रग्निहोत्रं कुरूत्तमम् ॥७३॥ व्यासशिक्षा भारतादौश्रूयतां धर्म सर्वस्त्रं, श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥७॥ श्रूयतां धर्मसर्वस्वं, भारतादाविदं वचः ।
षटूशतानि नियुज्यन्ते; इति मध्ये व्यवस्थितम् ॥७॥ षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥७६॥ प्रान्ते तु शान्तिकं पर्व, सर्वहिंसाविवर्नकम् ।
__ त्रयाणां कतमद्वयं, सम्यग् ज्ञात्वा निगद्यताम् ? ॥७७॥ आरोग्यं भास्करादिच्छेदित्यसत्यं वचो ध्रुवम् ।
___ स्वयं गलितपादोऽसौ, कथं कष्टापहो हहा ! ॥७॥ आकाशकुसुमप्राय, यन्मुक्तिश्च जनार्दनात् ।
· सहस्रशोऽवतारैश्च, कुर्वतोऽस्य गतागतम् ॥७९॥
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
हुताशनाद् वनप्राप्ति-रेषोक्तिर्न घटामटेत् ।
भस्मसात् कुरुते सर्व - मेतत्सत्यं तु नापरम् ॥१०॥ ईश्वराज्ज्ञानमन्विच्छेद , युक्तमुक्तं न चागमे ।
स्वयमज्ञानतः पापं, ब्रह्महत्यादि योऽकरोत् ॥८॥ प्राकृतं हि पिशाचानां, भाषाऽन्यैरभिधीयते ।
___ कृष्णाद्यैरपि बाल्यत्वे, ह्येतदुक्तं न संस्कृतम् ॥८२॥ ऋषिवैराग्यवान् पूर्व, गागलि म विश्रुतः ।
प्रविश्य वंशनालान्तस्तपस्तेपे सुदुस्तपम् ॥८३॥ एकदा सरसि स्नान्ती-मुशी वीक्ष्य देवताम् ।
वीर्य मुमोच सच्छिद्र-वंशान्तस्तत्र कीचकाः ॥४॥ षष्ठोत्तरं शतं जाताः, शालास्ते मत्स्यभूभुजः । ।
पुराणोक्तिरियं सत्या, मृषा वा तद्विमृश्यताम् ॥८६॥ आयुर्वेदः कथं सत्योऽथवा पौराणिकोक्तयः ?
आये युग्मात् समुत्पत्तिद्वितीये तु यतस्ततः ॥८६॥ वालुकातो वालिखिल्यः, कौशिकः कुशस्त्रस्तरात् ।
वंशाच्च कीचकशतं, द्रोणः कलशतो मतः ॥७॥ अगस्त्योऽगस्तिपुष्पाञ्च, कुम्भतः शरतो गुहः ।
रामपुत्रः कुशस्तोमाद्, मलाद् गणपतिः पुनः ॥८॥ गौतमः शरगुल्माच्च, कठिन्या: कठिनो मतः ।
अङ्गुष्ठाच्च मरीचिस्तु, काश्यपः कांस्य (काश) पात्रतः॥८९॥ हरिण्युदरतः कश्चित, कश्चित्तित्तिरकोदरातू ।
___ उलूक्याश्चटिकायाश्च, मत्सिकायास्तथोदरात् ॥१०॥ कोऽपि कर्णात् कोऽपि नेत्रा-दङ्गुष्ठादञ्जलेः पुनः । ... वहने लाद्नाद्वापि, जात एवं निगद्यते ॥११॥ आयुर्वेदे तु नवभि-मर्मासैः साधैर्जनिभवेत् ।
क्रमाञ्चक्रमणं वाक्य-रदाद्युत्पद्यते मुखे ॥१२॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
एवं मतद्वये दृष्टे, मोहश्चित्ते प्रजायते ।
युक्तायुक्तं विमृश्योच्चै-रेका स्थीयतां स्थिरैः ॥९॥ जलात्सञ्जायते शुद्धि-ज्वलनाच्च विशेषतः ।।
उभयोर्योगतश्चोष्णं, जलं पूतं कथं नहि ? ॥९४॥ यत उक्तं गीतायाम् - आपः स्वभावतो मेध्याः, किं पुनर्वह्नितापिताः ।।
तस्मात् सन्तः प्रशंसन्ति, शुद्धिष्णेन वारिणा ॥९॥ जलाधारे चर्मचये, जलं क्षिप्तं विशुद्धये ।
स एव तु कथं शुद्धः, सम्यग्रीत्या विचिन्त्यताम् ॥१६॥ जलं जलचरैर्जुष्टं, तथैव स्यलचारिभिः ।
दृष्ट्वा प्रत्यक्षतोऽपूतं, पवित्रं मन्यते कथम् ? ॥२७॥ जलाधारे पयोऽदुष्टं, वत्सपीतं तथा पयः।
भृङ्गाघ्रातं तथा पद्म, नवापूतं क्वचिद्भवेत् ॥९८॥ वहमानं कराघातं, घटीयन्त्रेण ताडितम् ।
नवभाजनसंस्थं तु, पवित्रं नीरमुच्यते ॥१९॥ जलाधारे पयोऽदुष्टमिति वाक्यबलादहो ! ।
विदध्वं स्वेच्छया स्नानं, कुरुध्वं शौचपावनम् ॥१०॥ सुसंसर्गाद्भवेत् पतं, कुसंसर्गादपावनम् ।
पानीयमिति तत्त्यक्त्वाऽऽग्रहं श्रृणुत मद्वचः ॥१.१॥ ईशसम्पर्कतः शुद्धां, कश्मलामिति भस्मतः ।
कथमेकान्ततः पूतां, गङ्गां वदत दुधियः ॥१०२॥ त्रयीतेजोमयो भानुः, समस्तं तत्करैः शुचि ।
जल्पन्तोऽप्येवमाहारं, रात्रौ कुर्वन्ति दुर्धियः ॥१०॥ ‘भारते उक्तम्जलानि यानि जाह्नव्याः, सर्वपापहराणि वै।
तान्येव रुधिराण्याहु-रस्तं याते दिवाकरे ॥१०४॥
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
ये रात्रौ सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः ।
तेषां पक्षोपवासस्य, फलं मासेन जायते ॥१०॥ तत्रैव-मद्यमांसाशनं रात्रौ, भोजनं कन्दभक्षणम् ।
ये कुर्वन्ति वृथा तेषां, तीर्थयात्रा जपस्तपः ॥१०॥ वृथा एकादशी प्रोक्ता, वृथा जागरणं हरेः ।
वृथा च पौष्करी यात्रा, कृत्स्नं चान्द्रायणं वृथा॥१०७॥ चतुर्मासे तु सम्प्राप्ते, रात्रिभोज्यं करोति यः ।।
तस्य शुद्धिन विद्येत, चान्द्रायणशतैरपि ॥१०८॥ श्रीहेमाचार्यैरप्युक्तम्पयोदपटलच्छन्ने, नाश्नन्ति रविमण्डले ।
अस्तं गते तु भुञ्जाना, अहो ! भानोः सुसेवकाः॥१०९॥ स्नानाद्यं वद्यते यत्र, तथा वढेश्व तर्पणम् ।
देवपूजार्चना दानं, भुज्यते तत्र किं निशि ? ॥११०॥ दिवसस्य द्विजातीनां, साढ़े यामद्वये गते ।
भोजनं कथ्यते शास्त्रे, न तदूर्ध्व न मध्यतः ॥१११॥ एकस्मिँश्च, सहस्रांशौ, द्विवेलं भुज्यते कथम् ।।
खादकैरिति जल्पद्भिामिनीभोजनं कृतम् ॥११२॥ चन्द्रमा मनसो जात, उताब्धेर्वाऽत्रिनेत्रतः।
वयं तत्त्वमजानाना , पृच्छामः कथ्यतां कुतः ? ॥११३॥ वेदोक्त मतिनारेण, परिणीता सरस्वती । 'मतिनार: सरस्वतीमुपयेमे' पुराणे च पुनर्देवी, विधृता च दधीचिना॥११४॥ वासवदत्तायामादावेष प्रबन्धोऽस्तिमुञ्जतस्तस्य भोगाश्च, जातः सारस्वतः सुतः ।
. तत्पितु तृतनयो, वत्सो नाम महामुनिः ॥११॥ ग्रन्थेषु पौरुषेयेषु, पुरुषोत्तमवल्लभा ।
जनश्रुत्या कुमारी च, किं तथ्यमिह दृश्यताम् ॥११६॥
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
११
तथा नैषधे एकादशे स्वर्गेदेवी पवित्रितचतुर्भुजवामभागा, वागाऽऽलपत्पुनरिमां गरिमाभिरामाम् । अस्यारिनिष्कृपकृपाणसनाथपाणेः, पाणिग्रहादनुगृहाण गणं गुणानाम्
॥११७॥ तथा च खण्डप्रशस्तौकीर्तिस्ते नृप! दूतिका सुररिपोरङ्कस्थितां भारती,
मां निहत्य ददौ तवेति गिरिशोऽभूदर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं दधौ,
स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियः शङ्कितः ॥११८॥ पूर्वस्यामुदयी भानुः, प्रासादे पूर्वतो मुखे ।
यात्रा च प्रथमे यामे, नतिः कस्य विधीयताम् ? ॥११९॥ इंदं तीर्थमिदं तीर्थ, ये भ्रमन्ति तमोवृताः । __ आत्मतत्त्वमजानन्तः , क्लिश्यन्ते ग्रहिला इव ॥१२०॥ तीर्य तीर्थ भ्रमन्तीह, यस्य दर्शनवाञ्छया । __ वसन्नपि हि देशेऽसौ, देवो द्रष्टुं न शक्यते ॥१२१॥ उक्तं च- तीर्थानामष्टषष्टिा, प्रोक्ता स्मृतिषु भारत ! ।
ततो भागीरथी श्रेष्ठा, ततोपि जननी मता ॥१२२॥ व्यासेनापि हि तीर्थेषु, परं तत्त्वमपश्यता ।
सवित्री परमं तीर्थ, यदुक्तमैहलौकिकम् ॥१२३॥ यदुक्तम्-पितुमातृसहस्राणि, पुत्रदारशतानि च ।
भवे भवे मनुष्याणां, को वा नैकस्य बान्धवः ? ॥१२४॥ यतो भागवतेऽप्युक्तम्अटन्तु हन्त ! ते शैला-नुपलानर्चयन्तु च ।
निम्नगासु निमज्जन्तु, नाथ ! येभ्यः पृथग्भवान् ॥१२॥ तक्षादिनीचैस्तु कृतानसत्यैः, पाषाणमृद्दारुमयाश्च देवान् । भनन्ति ये माधव! निन्दकास्ते, पूर्णः सदानन्दमयो हि विष्णुः॥१२६॥
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
आकाशपाशशुकबन्धसमानभावा, विप्रो गृही यतिवनस्थ इति प्रवादः । आनन्दबोधतनुके मयि पुंसि नित्ये, मोहो महानयमहो! महदिन्द्रनालम्
१२७॥ मनो विना न कोऽप्यस्ति, देवता भुवनत्रये ।
कल्पितं मनसा यच्च, तदन्यदपि देवता ॥१२॥ यतः-वाणी विद्या धनं लक्ष्मीः, स्त्रीवाञ्छा मकरध्वजः । ___ लामो लम्बोदरश्चेति, सर्वाः · कल्पितमूर्तयः ॥१२९॥ व्यासेनापि उक्तम्
आत्मा नदी संयमतोयपूर्णा, सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र!, न वारिणा शुद्ध्यति चान्तरात्मा ॥१३०॥ विष्णुरूपं जगदिदं, तथा शिवमयं परे । ___ गन्तुं स्थातुं तत्र भोक्तुं, तद्भक्तानां न युज्यते ॥१३१॥ एका मूर्तिस्त्रयो भागाः, सत्यं स्याद् यदिदं वचः ।
नैशा नमन्ति किं विष्णुं ?, हरेभक्तास्तु नो शिवम् ? ॥१३२॥ लिङ्गमीशस्य पन्यं स्या-दुत मूर्त्यन्तरं पुनः ।
लिङ्गं चेत् किं न सा मूर्तिर्या पूर्वमभवत् ततः ॥१३३॥ देहे भवन्तु वस्त्राणि, पञ्चषाणि न कौतुकम् ।
लिङ्गे तु पञ्च वक्त्राणि, तदाश्चर्यमहो! महत् ॥१३४॥ स्थानस्थिते महेशस्य, लिङ्गेऽभूत्पञ्चवक्त्रता ।
पतिते वास्ति सन्देहः, सम्यग् ज्ञात्वा निगद्यताम् ॥ १३५॥ आये तु जया रुद्धे, नावकाशः क्वचिद्भवेद् ।
पतिते चेतनाऽभावात् , कुतोऽभूद्वक्त्रसम्भवः ॥१३६॥ सर्वेषामेव देवानां, मूर्ति-रेण वेश्यते । ___ अपद्वारेण चेशस्य, कारणं तद्विचार्यताम् ॥१३७॥ वह्निवसति तन्नेत्रं, मूतवीशस्य विद्यते ।
लिङ्गस्य दृश्यमानस्य, प्रणामः किं पराङ्मुखः ? ॥१३८॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समुचयः ।
अप्रस्ताव इति ज्ञात्वा, चेत् पार्श्वे क्रियते नतिः ।
युगान्तं तत्र निरतः फलं किं दास्यते शिव : १ ॥१३९॥ यादृशो जायते देव - स्तादृशी धूपवेलिका ।
ईशस्य यादृशी मूर्तिः प्रणामस्तादृगेव हि ॥१४०॥ न शिवो बलवान् किन्तु तपो हि बलवत्तरम् । पश्यतां यद्वलादू गौर्या, शिवश्व के स्त्रकिङ्करः ॥ १४१ ॥ उक्तं च कुमारसम्भवे
अद्यप्रभृत्यवनताङ्गि ! तवास्मि दासः,
की तस्तपोभिरिति वादिनि चन्द्रमौलौ ।
पुनस्तत्रैव उक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
अह्नाय सा नियमजं क्लममुत्ससर्ज,
केशः फलेन हि पुनर्नवतां विधत्ते ॥१४२॥
सर्वेषामपि देवानां, कन्दर्पो बलवत्तरः ।
येन नाट्यं शिवो देवो, दग्धेनापि हि कारितः ॥ १४३ ॥
कुमारसम्भवे
पशुपतिरपि तान्यहानि कृच्छ्रा-दगम यदद्वितासमागमोत्कः । कमपरमवश न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥ १४४ ॥
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः,
शतमगमहतूनां साग्रमेका निशेव ।
न च विषयसुखेषु च्छिन्नतृष्णो बभूव,
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ १४५ ॥
वहिना क्षोभितः पश्चादपि वीर्यं मुमोच सः ।
तन्मुखे तेन च त्यक्तं, गङ्गायामसहिष्णुना स्नान्तीनां तत्र सरिति, प्रविष्टं कृत्तिकोदरे ।
षड्भिर्भागैः (र्मासैः) सुतो जातः, स षण्मुख इति स्मृतः ॥ १४७॥
For Private And Personal Use Only
13
॥ १४६ ॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सन्देह
नानाविगोपकैरेवं, सुतः सम्पूर्णतां गतः ।
तेनापि षष्टिदिवसे, तारकाख्यो निपातितः ॥१४॥ पालकः कथ्यते विष्णुः, प्रत्यक्ष शत्रुरूपभाक् ।
बलिना सुखितं लोकं, यो न सेहे ह्यमर्षणः ॥१४९।। प्रलयस्थितिसर्गाणां, हेतुर्दैवत्रयी मता।
ज्ञानं च समभूत्तस्य, न वेति प्रतिपाद्यताम् ॥१५०॥ ज्ञानं चेत्तर्हि दैत्याली, स्वानर्थाय कथं कृता ? ।
पालिता संहृता चेति, पश्यतां बालवल्गितम् ॥१५१॥ नग्नाचार्यप्रवेशाभो, देवत्रितयमेलकः ।
एकस्य मुख्यता कार्य-योगादन्यस्य लाघवम् ॥१५२।। एकैव मूर्तिबिभेदे त्रिधासौ, न वाक्यमेतद् घटनामुपैति । ___ हरेविरश्चन पुरा विवादो, वृद्धत्वहेतोर्भवता श्रुतः किम् ? ॥१५॥ पुराणे श्रूयते नार्यः, पूर्वमासन्निरर्गलाः ।
ये ताभिस्तनया जाता-स्ते कस्य कुलदीपकाः ॥१५४॥ क्षयाहं कस्य कुर्वन्तु ? , यच्छन्तु च जलाञ्जलिम् ? ।
श्राद्धं च कस्य वै नित्यं ?, विचार्या निगद्यताम् ॥१५॥ औद्दालके श्वेतकेतो-ये पूर्वमभवन् द्विजाः ।
स्वैरिणीभिश्च ये नाताः, कस्तेषां कुलजो मदः ? ॥१५६॥ यतो भारते
अनावृताः स्ववर्णेषु, सर्वसाधारणाः पुरा । ___ नार्यो बभूवुनिरो, यतः सर्वोऽभवजनः ॥१५७॥ औद्दालकेः श्वेतकेतुर्विजने वीक्ष्य मातरम् ।
करेण नेतुमाकृष्टा-मपूर्वेण द्विजन्मना ॥१५॥ कुपितो विदधे स्त्रीणा-मेकपत्नीव्रतस्थितिम् ।
पत्युश्च शासनात्तासां, न दोषः परसङ्गमे ॥१९॥ भतः कल्माषपादस्य, दमयन्ती पुरा सती ।
आज्ञया तनयं लेभे, वशिष्ठादश्मकाभिधम् . ॥१६०॥
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
___ एषा पाण्डो: शिक्षा कुन्ती प्रतिश्लोकाः ॥४॥ उक्तं च दर्पदलनेअनादाविह संसारे, दुर्वा रे मकरध्वने ।
कुले च कामिनीमूले, का जाते: परिकल्पना ! ॥१६१॥ कुलस्य कमलस्येव, मूलमन्विष्यते यदि।
दोषपकप्रसक्तोऽन्तस्तदवश्य प्रदृश्यते ॥१६२॥ एकश्चेत् पूर्वपुरुषः, कुले यज्वा बहुश्रुतः ।
अपरः पापकृन्मूर्खः, कुलं कस्यानुवर्तते ॥१६३॥ कुलाभिमानाभरणस्य माता, पितामही वा प्रपितामही वा । योषित् स्वभावेन यदि प्रवृत्ता, तदेष दोषः कुलमूलकाषः ।।१६४॥ कुलभिमानः कस्तेषां, जघन्यस्थानजन्मनाम् ।
कुले कुलङ्कषा येषां, जघन्या निम्नगा स्त्रियः ॥१६॥ नैषधे-शुद्धिवंशद्वयो शुद्धौ, पित्रोः पित्रोर्यदेकशः ।
___ तदनन्तकुला दोषा-ददोषा जातिरस्ति का? ॥१६६॥ कुलाभिमानिभिर्वार्ता, छन्दोदेवस्य न श्रुता ।
यस्यां च श्रुतमात्रायां, प्रयाति कुलजो मदः ॥१६॥ पुरा हि नारदस्याये, द्रौपद्या सत्यपञ्चकम् ।
यदाख्यायि तदेवापि, श्रुतमप्यश्रुतीकृतम् ॥१८॥ यतः-सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम ।
तथापि कुरुते वाञ्छां, मनः पठेऽपि नारद ! ॥१६९॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः ।
तेन नारद ! नारीणां, सतीत्वमुपजायते ॥१७॥ सुरूपं पुरुषं दृष्ट्वा, पितरं भ्रातरं सुतम् ।
मनश्चलति नारीणा-मेतत्सत्यं हि नारद ! ॥१७१॥ नारीणां न प्रियः कश्चि-न्न च द्वेष्योऽपि कश्चन ।
गावस्तृणमिवारण्ये, निघत्सन्ति नवं नवम् ॥१७२॥
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
अग्निकुण्डसमा नारी, घृतकुण्डसमो नरः ।
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
तेन नारद ! नारीणां संयोगं परिवर्जयेत् ॥ १७३ ॥
वेदस्मृतिपुराणेषु श्रुत्वा स्त्रीणां कुशीलताम् ।
अनुभूय स्वयमपि, मदं कुर्वन्ति किं जडाः || १७४ ॥ अनादावन संसारे, तिस्रः सार्द्धाः पतिव्रताः ।
?
शेषास्तद्विपरीतास्तु, कः कुलस्य कदाग्रहः १ ॥ १७५ ॥ यतः सप्तर्षिभिः प्रोक्तम् -
उच्छ्रितानि पतितानि पतितान्युच्छ्रितानि च ।
कुलाध्ययनवृत्तानि मया दृष्टान्यनेकशः ॥ १७६ ॥ अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् ।
शुद्रात् प्रतिग्रहं कृत्वा, खरो भवति ब्राह्मणः || १७७ ॥ खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः ।
श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ १७८ ॥ प्रकृत्या कर्म्मणा चापि द्विधाः शुद्राः प्रकीर्त्तिताः ।
कर्मणा वणिजः शुद्राः प्रकृत्या वा निगद्यताम् ॥ १७९ ॥ शुद्राश्च कुर्वतां वैश्यान् वैश्यान् शुद्रान् प्रकुर्वताम् ।
1
अपूर्वं सृष्टिकर्तृत्वं, गूर्जरत्राद्विजन्मनाम् ॥ १८० ॥ प्रत्यक्षं कारवश्चौराः, स्वर्णकारादयो मताः ।
वैश्यास्ते हेतुना केन, शुद्राश्च वणिजः कथम् ॥ १८९ ॥ भारते - वैश्यस्य सततं धर्मः, पाशुपाल्यं कृषिस्तथा ।
अग्निहोत्रपरिस्पन्दो - वेदाध्ययनमेव च ॥ १८२ ॥ वणिजां सत्पथस्थान - मातिथ्यं प्रशमो दमः ।
विप्राणां स्वागतं त्यागो, वैश्यधर्मः सनातनः ॥ १८३ ॥ तिलान् गन्धान् रसाश्चैव, विक्रीणीत न वै क्वचित् । वणिक्पथसमासीनो, वैश्यः सत्पथमावसन् ॥ १८४॥
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
भीष्मवाक्यम्पर्वैः स्थानानि दत्तानि, द्विजानां वासहेतवे ।
तन्निर्वाहकृतो वैश्याः, शूद्रा वा सम्य गुच्यताम् ॥१८॥ यदि शूद्रास्ततस्तेषां, ग्रहणात्पतिता द्विनाः ।
वैश्या वा तर्हि तद्वंश्यैः, शूद्रत्वं कथमर्जितम् ॥१८६॥ अथ-त एव शूद्रा ये जैनाः, कदाचिदिति वो मतिः ।
तर्हि ये भवतां भक्ता-स्तेषां वेश्मसु मुन्यताम् ॥१८७॥ तथा च-भारते शिवा गौरी प्रत्याहशूद्रान्नं गर्हितं देवि !, दिवि देवैर्महात्मभिः ।
पितामहमुखोत्सृष्टं, प्रमाणमिति मे मतिः ॥१८८॥ ये शूद्रार्थमुपादाय, अग्निहोत्रमुपासते ।।
ऋत्विजोऽपि हि शूद्रास्ते, ब्राह्मणादिषु गहिताः ॥१८९॥ न यज्ञार्थ क्वचिच्छूद्रा-द्विप्रो भिक्षेत कुत्रचित् ।
यनमानो हि भिक्षित्वा, चाण्डालः प्रेत्य जायते ॥१९०॥ शूद्रादादाय निर्वाप, ये पचन्ति द्विजातयः ।
ते यान्ति नरकं घोरं, ब्रह्मतेनोविवर्जिताः ॥१९१॥ शूद्रान्नं शूद्रसम्पर्क, शूद्रेण च सहासनम् ।
शूद्रान्जानागमो वापि, स्वर्गस्यमपि पातयेत् ॥१९२॥ शूद्रान्नेनावशेषेण, जठरे यो म्रियेद् द्विजः ।
आहिताग्निस्तथा यज्वा, स शूद्रगतिभाग्भवेत् ॥१९३॥ पुनस्तत्रैवएकवर्णमिदं सर्वे, पूर्वमासीयुधिष्ठिर! ।
क्रियाकर्म विभेदेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १९४॥ पुनः श्रूयते चप्रविष्ट भैरवीचके, सर्वे वर्णा द्विनातयः ।
उत्थिते भैरवीचक्रे, स वर्णा: पृथक् पृथग् ॥१९॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
सन्देह
शद्रोपि शीलसम्पन्नो, गुणवान् ब्राह्मणो भवेत् ।।
ब्राह्मणस्तु क्रियाहीनः, शुद्रापत्यसमो भवेत् ॥१९६॥ सद्यः पतति मांसेन, लाक्षया लवणेन च ।
त्र्यहेण शूद्रीभवति, ब्राह्मणः क्षीरविक्रयी ॥१९७॥ सर्वजातिषु चाण्डालाः, सर्वनातिषु ब्राह्मणाः ।
ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ॥१९८॥ असच्छूद्रा अशूद्राश्च, कल्पनेयं कृता वृथा ।
ग्रन्थे तल्लक्षणश्रेणिः, स्वापि सन्दर्यतां ततः ॥१९९॥ यतः-न क्षत्रियैर्भाति पुरं मनोज्ञ, न ब्राह्मणैः कारुजनै घनैर्न ।
तदेव रम्यं नृपतिः स एव, महाजनो यत्र वसत्यनन्तः ॥२०॥ भारते-न योनि पि संस्कारो, न श्रुतिर्नापि सन्ततिः ।
कारणानि द्विजत्वस्य, वृत्तमेव तु कारणम् ॥२०१॥ ब्रह्मस्वभावः कल्याणि !, समः सर्वत्र दृश्यते ।
निर्मल सकलं ब्रह्म, यत्र तिष्ठति स द्विनः ॥२०२।। न दर्भव्यग्रपाणिस्तु, न कमण्डलुसूचितः ।
न धौतवसनं बिभ्रजातो नग्नस्तु केवलम् ॥२०३॥ ब्रह्मबीनं तदाप्यासीत् , संस्काराच नतिः पुनः ।
क्यमेतदुक्तं वाक्यं, ब्रह्मबीन ! नमोऽस्तु ते ॥२०४॥ ब्राह्मणा मुखतो जाता, ब्राह्मण्यस्तु कुतोऽभवन् ।
यद्येकत्र ततो यामिः , सङ्गस्तेषां न युज्यते ॥२०॥ चेत्पृथग्वर्णसम्भूतास्ततोऽभूद्वर्णसङ्करः ।।
___ वर्णसङ्करजातानां, ब्राह्मण्यं गतमेव वै ॥२०॥ ये नीचस्थानतो जाता, योनौ कुर्वन्तु ते रतिम् ।।
ये पवित्रान्मुखाजाता-स्तेषां तत्र रतिं कुतः ? ॥२०७॥ एकस्मात् स्थानतो जन्मक्रियाः षष्ठ्यादिकाः समाः। पश्चात् तन्तुत्रयोत्क्षिप्ते, द्विनोऽहमिति किं मदः ? ॥२०८॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुञ्चयः।
१९
वेदार्हा ब्राह्मणाः केन, ब्राह्मण्यस्तु कुतो नहि ?।
ताभिर्मातास्तु ये तेषां, वेदानां योग्यता कुतः ? ॥२०९।। वेदान्तेऽप्युक्तम् -- ब्राह्मणस्य च देहोऽयं, नोपभोगाय जायते ।
इह क्लेशाय महते, प्रेत्यानन्तसुखायते ॥२१॥ शौचाचाररता विप्रा, बन्धुभ्योऽपि स्पृशन्ति न ।
मन्यन्तस्तातसन्देह, कुलान्माद्यन्ति चाधिकम् ॥२११॥ द्विनानां लक्षणं ब्रह्म, तच्च क्वापि न दृश्यते ।
ततस्तेन विहीनानां, ब्राह्मण्यं नामधारकम् ॥२१२॥ तं च भारतेमृगो दारुमयो यद्वद्, यद्वचर्ममयो गनः ।
ब्राह्मणस्तु क्रियाहीनस्तथा वै नामधारकः ॥२१३॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ।
___अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥२१४॥ तत्रैव सर्पप्रश्नेविद्धि भोगीन्द्र ! तं शूद, यो रौद्रश्चारुवृत्तमुक ।
दुर्वत्ता यान्ति शूद्रत्वं, त्रिवेदवेदिनोऽपि हि ॥२१५॥ तथा-सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौच, जलशौचं च पञ्चमम् ॥२१६॥ मुक्त्वा शौचचतुष्कं च, द्विजैः पञ्चममादृतम् ।
स्नानादाचमनाच्छुद्धि, प्रकुर्वद्भिर्दिने दिने ॥२१७॥ यत उक्तम् --- मृदो भारसहस्रेण, जलकुम्भशतेन च ।
न शुद्धयन्ति दुराचाराः, स्नातास्तीर्थशतैरपि ॥२१८॥ कामरागमदोन्मत्ता, ये च स्त्रीवशवर्तिनः ।
___न ते जलेन शुद्धयन्ति, स्नातास्तीर्थशतैरपि ॥२१९॥
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२०
www.kobatirth.org
नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते ।
तत्र तत्र कुरुक्षेत्रं, तत्र तत्र त्रिपुष्करम् ।
स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरे शुचिः ॥ २२०॥
Acharya Shri Kailassagarsuri Gyanmandir
संवत्सरेण यत्पापं कुरुते मत्स्यबन्धकः ।
निगृहीतेन्द्रियग्रामो, यत्रोपविशते मुनिः ॥ २२९ ॥
सन्देह
2
एकाहेन तदाप्नोति, अनुजलसही ॥२२२॥
उक्तं शिवधर्मोत्तरे -
लुतास्यतन्तुगलितै- कविन्दौ सन्ति जन्तवः ।
सूक्ष्मा भ्रमरमानास्ते, नैत्र मान्ति त्रिविष्ट ॥२२३॥
स्मृतावप्युक्तम्
विंशत्यङ्गलमानं तु, त्रिंशदङ्गलमायतम् ।
तद्वत्रं द्विगुणीकृत्य, दयावान् गालयेज्जलम् ॥ २२४ ॥ तस्मिन् वस्त्रे स्थितान् जीवान् स्थापयेज्जलमध्यतः ।
"
एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥ २२५ ॥ यः कुर्यात सर्वकार्याणि वस्त्रपूतेन वारिणा ।
उक्तं च भारते
ज्ञानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि ।
स मुनिः स महासाधुः, स योगी स महात्रती ॥२२६॥ चित्तं रागादिभिः शुद्धं वचनं सत्यभाषणः ।
7
ब्रह्मचर्यादिभिर्गात्रं, शुद्धो गङ्गां विनापि सः ॥ २२७ ॥ परदारपरद्रोहपरद्रव्यपराङ्मुखः ।
गङ्गाप्याह कुतोऽप्येत्य, मामयं पावयिष्यति ॥ २२८ ॥ जङ्गमं स्थावरं चैव, द्विविधं तीर्थमुच्यते ।
जङ्गमं ऋषयस्तीर्य, स्थावरं तैर्निषेवितम् ॥२२९॥
स्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥ २३० ॥
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते ।
___ असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तमम् ॥२३१॥ अगाधे विमले शुद्धे, सत्यशीलशमे हृदि ।
स्थातव्यं जङ्गमे तीर्थे, ज्ञानार्जवदयापरैः ॥२३२॥ आचारवस्त्राञ्चलगालितेन, सत्यप्रसन्नक्षमशीतलेन । ज्ञानाम्बुना स्नाति च यो हि नित्यं, किं तस्य भूयात् सलिलेन कृत्यम्!
॥२३३॥ न मृत्तिका नैव जलं, नाप्यग्निः कर्मशोधनम् ।
शोधयन्ति बुधाः कर्म, ज्ञानध्यानतपोजलैः ॥२३४॥ एकेऽश्नन्ति सदा मांस, प्रस्तावादपरेऽपि च ।।
स्य स्वं ब्राह्मयं प्रशंसन्ति, केषां वानुगम्यताम् ॥२३५॥ तथाच-एकस्तु जलहारी स्यान्चेत्यावसरिकः परः ।
___ पुरोहितश्च व्यासश्च, पञ्चमो गणकः स्मृतः ॥२३६॥ प्रथमश्च द्वितीयस्तु, कर्मकृद् द्वयमुच्यते ।
व्यासस्तु क्षणकारी स्यात् , शास्त्रे तुर्यस्य का गतिः ? १.२३७॥ उक्तंच-ग्रामकुटस्त्रयो मासान् , माठापत्यं दिनत्रयम् । ..
शीघ्रं नरकवाञ्छा चेद् , दिनमेकं पुरोहितः ॥२३८॥ राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते ।
__ भर्तरि स्त्रीकृतं पापं, शिष्यपापं गुरौ भवेत् ॥२३९॥ गणकस्तिथिवारादेर्मुहूर्तस्य च सूचकः ।
धर्मोपदेशकश्चैषु, कतमस्तन्निगद्यताम् ? ॥२४॥ पुराणं मानवो धर्म, इति वाक्यं हि कामधुक् ।
द्विनानामन्यथा हेतौ, क्रियमाणे किमुत्तरम् ॥२४१॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् ।
__ आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥२४२॥ जन्मेनयनरेन्द्रेण, सन्देहत्रितयं कृतम् ।
पाप्मना तेन तद्देहे, मण्डलत्रितयं स्थितम ॥२४३॥
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
भयमेवं समुत्पाद्य, जन्मेजय निदर्शनात् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वैरं विप्रा विलसत, हेत्वातङ्कविवर्जिताः ॥ २४४ ॥
अशक्यपरिहार्येऽर्थे, द्विजानामेवमुत्तरम् ।
सन्देह
विष्ठाशी सर्वदा पूतः काकः केन गुणेन च ।
द्विजैः पवित्रं मन्वानै ज्यादौ पूज्यते सदा ॥ २४५ ॥ वैश्वदेवस्य देवानां पितॄणां पूजनक्षणे ।
काकस्य दीयते पक्तिरपवित्रस्य किं द्विजैः १ ॥ २४६ ॥ कथयन्ति मुखे शौचं संस्कारेष्वखिलेष्वपि ।
गृह्णन्ति कोरवस्त्राणि, मासाहसखगोपमाः ॥२४७॥ नित्यं शुद्धः कारुहस्तः, पण्यं यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं, सर्व मेध्यमिति स्मृतिः ॥ २४८ ॥
ब्राह्मण्या भाण्डमुत्क्षिप्तं, परिवेषणहेतवे ।
तत्स्पृष्टमपि न त्याज्यं, यावद्भूमौ न मुच्यते ॥ २४९॥ भूमिमुक्तं तदेव स्यात्, तद्भाण्डं त्याज्यमेव हि ।
एतावदपवित्रा भूर्ब्राह्मणी तु सदा शुचिः ॥२५०॥ - भोजनावरे विप्राः, पृथगासनसंश्रिताः ।
भुञ्जानाः स्वं स्पृशन्तोपि, भूमेर्योगाच्च दूषिताः ॥ २५१ ॥ यद्येवम् गोमयेनोपलिप्ता भूः, शुद्धा स्यादिति निश्चयः । एकवेल विलिप्यैषा, मुच्यते किं पुनः पुनः १ ॥ २५२ ॥ अथ - यथा प्रक्षालितं वस्त्रं पवित्रं मन्यते द्विजैः ।
तद्वत् स्वयं कृतं भाण्ड मपि नादीयते कथम् ? ॥ २५३॥ कुलाल: शूद्र एव स्यात् तेन पक्वं स्ववह्निना ।
विप्रैः पवित्रं मन्वानैर्भाण्डमादीयते कथम् ? ॥ २५४॥ ब्राह्मणानां हि भाण्डस्थं, पूतमन्नं तदप्यहो ।
अपतं वणिजां दृष्टिगोचरे स्यात् समागतम् ॥ २५५ ॥
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
तत्याज्यमेव विप्राणां, भोक्तुं नो युज्यते क्वचित् । ____ अन्नस्य च व्यवस्यैषा, कूपस्याज्यस्य का कथा ? ॥२५॥ श्रूयते च-नीली पट्टे जलं तके, चित्रा गोर्लेच्छमन्दिरे ।
___ भिक्षान्नं पञ्चगव्यं च, पवित्राणि युगे युगे ॥२५७॥ अपूतां गुलिकां प्राहुः, पुनः पट्टस्थितां नहि ।
युक्तं च शुद्धयते हत्या, हत्यया मिलिता सती ॥२५८॥ क्षत्रियाणां च वैश्यानां, शूद्राणां भाण्डतो द्विजैः ।
तक्रमादीयते तस्मिन् , पक्वमन्नं न गृह्यते ॥२५९॥ कोरमन्नं सदा पूतं, पानीयं ज्वलनोपि च ।
त्रयाणां योगतः सिद्धं, दूष्यं तत् कथमुच्यते ? ॥२०॥ घृतयोगाच्च भाण्डस्य, पूतत्वं जायते ध्रुवम् ।
___ तदा चाण्डालमाण्डस्थं, घृतमादीयते न किम् ? ॥२६॥ ब्रह्मणा विहितां सृष्टिं, प्राहुर्वेदविशारदाः ।
ते त्वसङ्ख्यास्ततस्तेषु, कतमः सृष्टिकारकः । ॥२६२॥ एकावे समुत्पन्ने, यदेको नाभिसम्भवः ।
अपरे तु कथं जाता:?, कथमेकश्च कथ्यते ॥२६३॥ प्रादुरासन् कुतो वेदाः?, कतमो हंसवाहनः ? ।
कतमः पञ्चवक्त्रोऽभूत् , कतमश्चतुराननः ? ॥२६४ ॥ भारती तनया कस्य !, गायत्री कस्य पत्न्यभूत् ?
___अपूज्यः कतमो जातः ? कतमाद्वर्णसम्भवः ? ॥२६॥ कतमाद्वालिखिल्यास्ते, भारती को ह्यकामयत् ।। __दक्षः प्रजापतिः कस्मान् ?, मरीचिस्तु कुतोऽभवत् ॥२६॥ इयं हि लक्षणश्रेणिः, सर्वेषां च समा मता ।
एकस्य वा तदन्येषां, लक्षणं किञ्चिदुच्यताम् ? ॥२६७॥ शिवशक्तेः समायोगात् , केपि सृष्टिं विदुः परे। ...
कुग्जिकारूपमाधाय, शक्त्या सृष्टिं तथैकया ॥२६८॥
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४
www.kobatirth.org
उत्पत्तौ वालिखिल्यानां का शक्ति: परिकल्पिता ? |
Acharya Shri Kailassagarsuri Gyanmandir
"
तथा द्रोणसमुत्पत्तौ द्वयोर्योगः कथं कृतः १ ॥ २६९ ॥
ह
सन्देह
महाभारते शान्तिपर्वणि पितामहं धर्मपुत्रः पृच्छति, - शतायुर्वे पुरुषः, शतवीर्यः शतेन्द्रियः ।
कस्मात् त्रियंते पुरुषाः बाला इति पितामह ! ॥२७०॥ शतायुर्वै पुरुष, इति वेदवचो ध्रुवम् ।
दश वर्षसहस्राणि आयुर्दशरथे कथम् ? ॥ २७९ ॥ उक्तं रघौ-पृथिवीं शासतस्तस्य, पाकशासनतेजसः ।
किञ्चिदूनमनूनार्द्धेः, शरदामयुतं ययौ ॥ २७२ ॥ श्रूयते - अवस्थामा बलिर्व्यासो, हनुमाश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ २७३॥ हिरण्यकशिपोरा युर्वाल्मीकेर्लोमशस्य च ।
वशिष्ठाधिसुन्वोश्च श्रुत्वा चेतो विमुह्यति ॥ २७४ ॥ दैत्यत्वे च मुनित्वे च नृपतित्वे तथैव च ।
वेदवाक्यमतिक्रम्य, कथमायुर्विवर्द्धते ? ॥ २७५ ॥
पुच्छाधः पूज्यते धेनोः कथं शण्डो न पूज्यते ? |
सर्वदेवमयं स्थानं, यश्चाक्रामति हेलया ॥ २७६ ॥ शण्डस्य पाणिग्रहणा - दहो पुण्यमुपार्जितम् ।
सा धेनुकपत्नी स्या- दनूढावर्जकश्च सः ॥ २७७ ॥ कुलक्षणः कुवर्णो यः, शण्डो भवति कश्चन ।
सनील इति जल्पद्भिः स्वार्थिकैः श्रूयतेतराम् ॥ २७८ ॥ विवाहश्च तथा धेन्वा महोत्सवपुरस्सरम् ।
कार्यते यैर्न दोषोऽस्ति तेषां लोभे मतिर्यतः ॥ २७९ ॥ ये तु क्लेशशतैरर्थ- मुपात्तं तद्वचोबलात्
क्षयं नयन्ति ज्ञमन्यास्तेषां प्रावीण्यमद्भुतम् ॥ २८० ॥
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
शुक्ला स्याद् ब्राह्मणी धेनू , रक्तवर्णा च क्षत्रिणी।
पीता वैश्यी तु विज्ञेया, कृष्णवर्णा तु शूद्रिणी ॥२८१॥ कुवर्णा पुष्पिता या च, कपिला कर्बुरा तया।
सर्वेपि शूदिकाभेदाः, शेषाः स्युरिति विश्रुतम् ॥२८२॥ श्वेतरोगधरो यद्वन् , नरो भवति गर्हितः ।
तद्वत् कुवर्णा धेनुः स्याजुगुप्स्या हि सतां पुनः ॥२८॥ कुवर्णा तु गृहस्थस्य, नार्हा स्थापयितुं गृहे।
तामादातुं द्विजैर्नाना-प्रकारैः श्रूयतेतराम् ॥२८४॥ वत्सलां गुणसम्पूर्णो, तरुणीं वत्ससंवृताम् ।।
दत्त्वेदृशीं गां विप्राय, सर्वपापैः प्रमुच्यते ॥२८॥ बलान्विताः शीलवयोपपन्नाः, सर्वाः प्रशंमन्ति सुगन्धिवत्यः। ययाहि गङ्गा सरितां वरिष्ठा, तथा जनानां बहुला गरिष्ठा ॥२८६॥ तस्मात्प्रदाने बहुलाप्रदाने, सद्भिः प्रशस्तं कपिलाप्रदानम् ।
भारते शान्तिपर्वणि । तथाच रघौ वशिष्ठधेनुरेवं वर्ण्यतेललाटोदयमाभुनं, पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाञ्चं , सन्ध्येव शशिनं नवम् ॥२८७। सापि कपिला न ॥ ब्राह्मण रेव जीवानां, कृता वर्णादिकल्पना ।
अस्माकं तु मते गाव:, समानगः सकला अपि ॥२८॥ यावर्जीवं नरः कश्चित् , कृत्वा पुण्यपरम्पराम् ।
मृतः क्वापि विदेशेऽसौ, प्रेतकार्य च नाभवत् ॥२८९॥ अपरः पापकृद धूर्तः, क्रोधनो लोभवास्तथा ।
स स्वगेहे मृतस्तस्य, प्रेतकार्य सुतादिभिः ॥२९॥ विदधे धेनुदानाद्य, सर्वमुद्यापनं द्विनैः ।
त्रिदिवं कस्तयोर्यातो, नरकं कश्च जग्मिवान् ? ॥२९१॥ आद्यश्चेन्नरकं स्वर्गात् , पातितो ब्राह्मणैर्बलात् ।
द्वितीयस्तु पुनः श्वभ्राद् , बलात्स्वर्ग निवेशितः ॥२९२॥
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
देवताऽऽराधनैर्दा नैस्तपोभिस्तहि पर्थताम् ।
ब्राह्मणा यत्र नेष्यन्ति, गन्तव्यं तत्र निश्चितम् ॥२९३॥ न देवयज्ञानुगतो ययातिः, शर्मिष्टया नापि च गुप्तपत्न्या । न शान्तनुर्योजनगन्धया च, तस्यापि पुत्रौ न तयोर्वधूभिः ॥२९४॥ न रामतातस्तिसृभिः प्रियाभि-न सीतया सोऽपि च रामभद्रः । न रावणस्तत्प्रिययाऽनुयातो, दुर्योधनो नैव च भानुमत्या ॥२९५॥ नानुप्रयातश्च हरिः प्रियाभिस्तद्वान्धवस्तत्प्रिययापि नैव । क एष धर्मः प्रविशन्ति वह्नि, नार्योऽधुना कान्तमुपासितुं स्वम् ॥२९॥ उक्तश्चरघो अनं प्रति वशिष्ठशिष्येण
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥२९७॥ यदा भगीरयो गङ्गा, स्वर्गाद्भूमौ समानयत् ।
तदा पूर्व महेशस्य, जराजूटे पपात सा ॥२९८॥ ततश्च वासुदेवस्य, पादे मूर्ध्नि ततो गिरेः।
क्रमाच्च पृथिवीं लेभे, पुराणे श्रूयते ह्यदः ॥२२९॥ स्थिरत्वाच्च गिरेः श्रृङ्गे, पतत्वेषा न कौतुकम् ।
वासुदेवेशयोः किं न, कार्यान्तरमनायत ? ॥३००॥ . कथयन्ति वधूशुद्धिं, वैश्वदेवप्रवेशनात् !
कुन्त्यास्तु सा कथं जाता ? यत् पञ्चपतिका च सा २०१॥ पाण्डोः सुतानां च कुरूत्तमाना-मनागतं यश्चरितं चकार । राज्यं जितं केन दुरोदरेण, सपादलक्षेपि तदेव नाख्यत् ॥३०२॥ न रात्रेभॊजनात् पापं, न वृन्ताकैर्न मूलकैः ।
नालिके रैर्न मधुना, किन्तु तुम्बीफले स्थितम् ॥३०३॥ काकविष्ठासमुद्भूतस्तथा कृमिकुलाकुलः ।
पिप्पलः पूज्यते मूढैः कथमाम्रो न पूज्यते? ॥३०४॥
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
'आत्मा वै जायते पुत्र ', इति सत्यं वचो यदि ।
___ पिप्पलस्य तथा शम्या:, कथं नैका फलावलिः ? ॥३०॥ एकस्यचेत् पिप्पलस्य, कारितं पाणिपीडनम् ।
कुमाराणां तु तस्यापि, दर्श्यतां किञ्चिदन्तरम् ॥३०६॥ पिप्पलस्याथ पिप्पल्याः, शम्या वा तन्नरस्य च ।
ज्ञात्वाऽन्तरं विवाहश्च, क्रियतां नो यतस्ततः ॥३०७॥ न रतिर्यस्य रुक्मिण्या, न श्रियाऽतिमनोज्ञया ।
गोपीभिरपि नो जाता, किन्तु लक्ष्म्या भविष्यति ॥३०८॥ भुङ्क्ते तां नररूपेण, सुरस्यागम्य वा पुनः ।
कीटरूपेण वा कुन्थोर्हरिः सम्यग्विमृश्यताम् ॥३०९॥ न दानान्नापि शीलाच्च, न सत्याच्चिरपालितात् । मुक्तिः स्यात् किन्तु वक्त्र(तुलस्था, दास्यत्येव हरिप्रिया ॥३१०॥ हररतिप्रियैवैषा, पूज्यते यैस्तु लक्ष्मिका ।
वृक्षास्ते नररूपेण, परं पत्रादिवर्जिता. ॥३११॥ विधेविधायिनो विप्रा, अपूर्वाः सृष्टिकारकाः ।
स्वयम्भूः सृष्टिकृत्तेषु, सृष्टिसंहारयोरपि ॥३१२॥ तीर्थानामष्टषष्टिश्च, देवानां कोटयो घनाः ।
नवकोट्यस्तु देवीनां, कस्याराधनतः फलम् ॥३१३॥ इयं भगवती लक्ष्मीः , पुरुषोत्तमवल्लभा ।
__ जनेन त्रिविधेनापि, भुज्यते तन्न सुन्दरम् ॥३१४॥ अथ चैव नराः सर्वे, हरेरंशाः प्रकीर्तिताः।
___ स्वां प्रियां प्रति मा कोपं, कुरुध्वं परसङ्गमे ॥३१५॥ आमलक्या व्रतपरान् , हरिः प्रेक्ष्य हसत्यहो!।
बुमुक्षया फेरकैश्च, सन्ति भव्यं विगोपिताः ॥३१६॥ एकमेव हि कुर्कुट्या, मर्कट्याश्च, महाव्रतम् ।
तारयिष्यति किं शेषः, शरीरक्लेशकारिभिः ? ॥३१७॥
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
पतिव्रताव्रतं लोप्तुं, दैत्यस्त्रीणां तु मायया ।
विष्णुना नारदेनाथ, विहितेयं व्रतावलिः ॥३१८॥ क्वापि गायन्ति नृत्यन्ति, कूर्दन्ति ग्रहिला इव ।
चुम्बपानं प्रकुर्वन्ति, कोलीनत्वविघाति यत् ॥३१९॥ एतदेव व्रतं स्त्रीणां, यद्भक्तिभर्तरि स्वके ।
तां परित्यज्य नीयन्ते, धूर्तरन्येषु वर्त्मसु ॥३२०॥ उक्तं च स्मृतौ – अवता विधवा या तु, यतिश्चैवाव्रतस्तथा ।
अन्धेतमसि मन्ति, यावदिन्द्राश्चतुर्दश ॥३२१॥ त्रिविधेन प्रकारेण, भर्तर्या विहिते रता ।
पतिव्रता तु सा ज्ञेया, न योनिपरिरक्षणात् ॥३२२॥ अत्रापि विधवानां तु, व्रतमुक्तं मनीषिभिः ।
सधवानां तु पूर्वस्मादन्यत् क्वापि न दृश्यते ॥३२३॥ बहूनि सन्ति तीर्थानि, सर्वेष्वङ्कः कथं न हि ?।।
शरीरं विद्यते स्थूलं, वह्निः सर्वत्र लभ्यते ॥३२४॥ हृदये यदि देवोऽस्ति, तदाऽकैः किं प्रयोजनम् ।।
तत्र चेन्नास्ति किं तैस्तु, शरीरक्लेशकारिभिः ? ॥३२५॥ शिवस्य मस्तके गङ्गा, श्रूयते जलवाहिनी।
किं घटाद्विन्दुपातेन, तस्य शैत्यं भविष्यति? ॥३२६॥ अतिनिर्मथितादग्नि-श्चन्दनादपि जायते ।
तथाभूतस्य लिङ्गस्य, युक्तं तज्जलसेचनम् ॥३२७॥ स्कन्धे विहङ्गिकां कृत्वा, गाङ्गमानीयते जलम् ।
किं तेन नीरवानीशो, न गाङ्गैः शिरसि स्थितैः ॥३२८॥ सुप्तस्तु दृश्यते विष्णुर्नत्यन्नपि हि दृश्यते ।
. उर्ध्वः सदैव तिष्ठेतोपविष्टः किं न दृश्यते ? ॥३२९॥ सर्वेषामपि देवानां, कूर्चः समवलोक्यते ।
- विष्णोर्न दृश्यते हेतुस्तत्र कोऽत्र प्रकाश्यताम् ? ॥३३०॥
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
ब्रह्मरुद्रादिदेवाना-मामने पट्टको भवेत् ।
सिंहासनं कथं नास्ति, सर्वैश्वर्यप्रकाशकम् ? ॥३३१॥ सर्वेषामपि चैकैकं, छत्रं मूर्धनि दृश्यते ।
जगत्त्रयाधिपत्यस्य, सूचकं तत्त्रयं न किम् ? ॥३३२॥ प्रासादे मण्डपश्चैकः, सर्वेषां बहवो न किम् ।।
कथं च वणिनां चैत्ये, तेषामष्टोत्तरं शतम् ? ॥३३३॥ मानवानां हि वाक्येषु, प्रतिष्ठेवावलोक्यते ।
देवानां वचसि क्वापि, बालवत् सा न दृश्यते ॥३३४॥ अट्टहासो मनुष्याणां, सर्वथैव निषिध्यते ।
देवानां तु पुनर्मुख्यः, सर्वशास्त्रेषु वर्ण्यते ॥३३५॥ मानुष्येषु पुनर्नृत्यं, नटादीनां च शोभते ।
देवानां तेन चोत्कर्षः, प्रत्युत श्रूयतेतराम् ॥३३६॥ अस्थिलेशो मनुष्याणा-मपावित्र्यकृते भवेत् ।
___ण्डमुण्डादिभिस्तेषां, प्रत्युताभरणस्थितिः ॥३३७॥ दिर्वा स्त्रीभाषणं नृणां, लज्जाय तैः समादृतम् ।
युक्तमेतत्समाख्यातं, न देवचरितं चरेत् ॥३३८॥ शिखण्डिनः समुत्पत्त्या, श्रुतया कस्य मानसम् ।
मन्यते सत्यमेतच्च, मुक्त्वा तद्वादिनो नरान् ॥३३९॥ सूर्यान्वयमहीशानां, वशिष्ठः श्रूयते गुरुः ।
एकः सप्तऋषीणां च, मध्ये संदृश्यतेऽम्बरे ॥३४०॥ अर्बुदाद्रेः समानेता, चैकस्तत्रैव विद्यते ।
वशिष्ठश्चैक एवासीत् , सञ्जाता बहवोऽयवा ? ॥३४१॥ दीक्षितैः पाठकैश्चापि, आचार्यैर्याज्ञिकैस्तथा ।
वेदोक्तैः क्रियते मन्त्रैर्यागश्चैतच्च निश्चितम् ॥३४२॥ विश्वामित्रवशिष्ठाद्यैः, शिवभक्तैर्जटाधरैः ।
गृहस्थैर्ये विधीयन्ते, यागास्तैस्ते कथं कृताः ॥३४३॥
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
रघावुक्तम्-स जातकर्मण्यखिले तपस्विना, तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः, प्रयुक्तसंस्कार इवाधिकं बभौ ॥३४४॥ उक्तमनर्घ्यराघवेप्रज्ञातब्रह्मतत्त्वोऽपि, स्वर्गीयैरेष खेलति ।
गृहस्थप्तमयाचार-प्रक्रान्तैः सप्ततन्तुभिः ॥३४॥ दशमीमिश्रितामेके, केवलामपरे पुनः ।
घटिकासङ्ख्यया केचित् , केचित्पञ्चदशी तिथिम् ॥३४६॥ कुर्वन्त्येकादशीमेवं, नानामतबिकल्पनात् ।।
कथं दृष्टया विहीनस्य, ‘मार्गमन्धः प्रकाशयेत् ? ॥३४७॥ द्विधा ये मुनयः प्रोक्ता, ब्रह्मराजर्षिसञ्ज्ञया ।
__ जटाधराः सभस्मानः, सर्वे वल्कलवाससः ॥३४८॥ तेषां मते शिवो देवोऽन्यस्य कुर्वन्ति नो नतिम् ।
द्विविधा अपि ते शैवाः, को मदस्तैर्द्विजन्मनाम् ? ३४९।। उक्तं च शैवागमे-सत्येन ब्रह्मचर्येण, तपसा संयमेन च ।
मातङ्गोपि मुनिः सिद्धो, न सिद्धास्तीर्थयात्रया ॥३५०॥ [ षडक्षरेण पूतो यश्चाण्डालो वाऽथ ब्राह्मणः ।
दीक्षितः शिवमन्त्रेण, सभस्माङ्गः शिवो भवेत् ॥३५१॥ ] उक्तंच कुमारसम्भवेते सद्मनि गिरेवेंगादुन्मुखद्वाःस्थवीक्षिताः ।
अवतेरुर्जटाभारैलिखितानलनिश्चलैः ॥३५२॥ अत्र ऋषयो जटाधराः। तृतीयाश्रममापन्नान् , बूथ चेद् ब्राह्मणान् ऋषीन्।
वाल्मिकीव्यासमुख्यानां ब्राह्मण्यमभवत्कथम्? ॥३५३॥ अथ-भस्माङ्करास्तु ते सर्वे, ये जाता वनवासिभिः ।
तैः कृतानि पुराणानि, प्रमाणीक्रियतां कथम् ! ॥३५४॥ अन्त्याश्रमसमासीनो, द्विजस्तु भगवान् भवेत् ।
त्यक्तोपवीतकाषाय-वसनो मुण्डितः पुनः ॥३५५॥
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
भैक्षाशी विप्रगेहेषु, विष्णुमन्त्रेण पावितः।
सर्वकर्म विनिर्मुक्तो, विष्णोरन्यस्य नो मतः ॥३५६॥ . कुटीचरादिभेदैस्तु, चतुर्की मुवि विश्रुतः ।
न करोति स्वयं हिंसां, हिंसाशास्त्राणि नो दिशेत् ॥३६७।। उक्तं च- कुटीचरं दहेदानौ, जले क्षिपेद् बहूदकम् ।
भूमौ विनिक्षिपेद्धसं, परमहंमं वने त्यजेत् ॥३५८॥ एविवस्तु संन्यासी, विप्राणां गुरुरिष्यते ।
शैवैस्तु मुनिभिः साके, कः सम्बन्धो द्विजन्मनाम् ॥३५९॥ रुक्तानि पुराणानि, स्मृतयोपि च तैः कृताः ।
शास्त्रैस्तैर्वृत विप्राणां, मत्तता किमियत्यहो ! ॥३६०॥ शैवाः कथयन्तिशिवशक्तिसमुत्पन्ना, जात्या वदन्ति ब्राह्मणाः ।
ध्यायन्ति केशवं देवं, प्रत्यक्षं गुरुतल्पगाः ॥३६॥ जिनाङ्गुलप्रमाणेन, क्रियते घृतलेखनी । __जिना न सन्ति किं तेषां, सङ्ख्या वेदे प्रकाशिता ? ॥३६२॥* ___ * ॐ त्रैलोक्यप्रतिष्ठितान् चतुर्विंशतितीर्थङ्करान् ऋषमाद्यान् वर्धमानान्तान् सिद्धान् शरणं प्रपद्ये । ॐ पवित्रं नग्नमुपस्पृशामहे येष नग्नं सुनग्नं येषां जातं सुनातं येषां वीरं सुवीरं इत्यादि ऋग्वेदयजुर्वेदे च रक्षामन्त्रः- ॐ नमो अर्हते ऋषभाय काष्टायनशाखायांआदौ ऋग्वेदे तथा यजुर्वेदे ॐ ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञेषु नग्नपरमं माहस्यं स्तुताचारं शत्रुञ्जयं तं पशुरिन्द्रमाहुतरिं स्वाहा ॐ त्रातारमिन्दं ऋषभं वदन्ति अमृतारमिन्द्रं हवे सुगतं सुपार्श्वमिन्द्रं तहेव शक्रमजितं तद्वर्द्धमानं पुरुहूतमिन्द्रमाहुतिति गहा । ॐ नग्नं स्वधीरं दिग्वाससं ब्रह्मगर्भ सनातनं उपैमि वीरं पुरुषमहन्तमादित्यवर्ण तमसः परस्तात् स्वाहा । ॐ स्वस्ति न इन्द्रो वृद्धिश्रवाः स्वस्तिनः । पपा विश्व वेदाः स्वस्तिनस्ता” अरिष्टनेमिः स्वस्तिनो बृहस्पति दातु।
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
उक्तंच- 'जिनाङ्गुलप्रमाणा दर्वी ' , तथानानास्यानानि दत्तानि, मनुनैश्च सुरैरपि।
जिनचैत्यनिवेशः किं, तेषु सर्वत्र दृश्यते ? ॥३६॥ नगरे त्रीणि चैत्यानि, द्वितयं वायडे तथा।
नडूले द्वितयं चैव, पल्यां त्रितयमेव च ॥३६४॥ एक वटमहास्थाने, पञ्चनालंधेरे पुनः ।
पञ्चकं पुष्करिण्यां तु, शुद्धदन्त्यां तथैककम् ॥३६॥ डीसके समभूदेकं, एकं मोढेरके पुनः ।
दशकं खेटयुग्मे च श्रीमाले पञ्चकं पुनः ॥३६६॥ मठास्तथैव जैनानां, मुनीनां वासहेतवे ।
गच्छास्तेषां च तन्नाम्नाऽद्यापि सर्वत्र विश्रुताः ॥३६७॥ शालातालानिवेशेन, तेषां तत्र व्यवस्थितिः ।
कथ्यते किं द्विजैनाः, पाश्चात्याः साधवस्त्वमी ? ॥३६८।। उक्तंच- जिनेन्द्रो वीतरागोऽहंन् , केवली च त्रिकालवित् ।
एतानि कस्य नामानि, कथ्यन्ते बालकैरपि ॥३६९॥ नाममालायां । प्रभासपुराणेभवस्य पश्चिमे भागे, वामनेन तपः कृतम् ।
तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ॥३७०॥ पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः ।
नेमिनाथः शिवेत्येवं, नाम चक्रेऽस्य वामनः ॥३७१॥ कलिकाले महाघोरे, सर्वपापप्रणाशकः ।
दर्शनात्स्पर्शनाद देवि !, कोटियज्ञफलप्रदः ॥३७२॥ अहिल्यागमने जातं, दैत्यानां च वधे कृतम् ।
. वधे वृत्तस्य यत्पापं, तत्पापं क्षालयाम्यहम् ॥३७३॥ दीर्घायुर्बल ०००० शुभजाता । ॐ रक्ष रक्ष अरिष्टनेमि स्वाहा वामदेवशान्त्यर्थमनुविधीयते सोऽस्माकं अरिष्टनेमि स्वाहा । इत्याधिकं प्रत्यन्तरे।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
•
www.kobatirth.org
समुच्चयः ।
उज्जयन्तगिरौ रम्ये, माघे कृष्णचतुर्दशी ।
तस्यां जागरणं कृत्वा, जातोऽयं निर्मलो हरिः ॥ ३७४ ॥
इदमपि प्रभासपुराणे -
युगे युगे महापुण्या, दृश्यते द्वारिकापुरी ।
अवतीर्णो हरिर्यत्र, प्रभासे शक्तिभूषणः || ३७५ ॥
taarat जनो नेमि - युगादिर्विमलाचले ।
Acharya Shri Kailassagarsuri Gyanmandir
ऋषीणामाश्रमा देवि ! मुक्तिमार्गस्य कारणम् || ३७६ ॥
7
वशिष्ठपद्धतावुक्तम्
शाला तु ब्रह्मशाला स्यात्, श्वेताम्बरोपदेशेन
जिनमन्दिरम् 1
ताला तु श्रावकैस्तद्विधीयते
पार्वती आह
की शाश्च किमाहाराः कर्म कुर्वन्ति कीदृशम् ? |
ईश्वर उवाच -
तपःशोषितसर्वाङ्गा, मलक्लिन्न कलेवराः । स्नसा स्पिचर्मवपुषो
अवतारः कथं तेषां महादेव ! निगद्यताम् ? || ३७८ ॥
॥३७७॥
निहतान्तरशत्रवः ॥३७९ ॥
तुम्बीफलकरा भिक्षा- भोजिनः श्वेतवाससः ।
सकम्बला रोमयुता, ऊर्णारोमप्रमार्जनाः ॥ ३८० ॥ गृह्णन्ति शुद्धमाहारं, शास्त्रदृष्ट्या चरन्ति च ।
कुर्वन्ति कदा पापं दयां कुर्वन्ति सर्वदा ॥ ३८१ ॥ मुक्तिकारणधर्माय, पाप निष्कन्दनाय च ।
अवतारः कृतोऽमीषां मया देवि ! युगे युगे || ३८२ ॥ यदमीषां महर्षीणां, जलदानादपि प्रिये ! |
f
सुकृतं प्राप्यते लोकै-र्न हि तद् यज्ञकोटिभिः ॥ ३८३ ॥ नगर पुराणेऽप्युक्तम्दशभिर्भोजितैर्विप्रैर्यत्फलं जायते कृते ।
मुनेरर्हद्रक्तस्य, तत्फलं जायते कलौ ॥ ३८४॥
For Private And Personal Use Only
३३
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
सन्देह
विष्णुपुराणे-रजस्वला न दूष्येत, या च नारी तपस्विनी ।
कुमारी वेदिमारूढा, ब्राह्मणी चाथ दीक्षिता॥३८॥ मनुस्मृतौ----कुलादिवीनं सर्वेषां, प्रथमो विमलवाहनः ।
चक्षुष्मान यशस्वी चाभिचन्द्रश्च प्रसेनजित् ॥३८६।। मरुदेवश्च नाभिश्च, भरते कुलसत्तमाः।
___ अष्टमो मरुदेव्यां तु, नाभेर्नात उरुक्रमः ॥३८७॥ दर्शयन् वर्त्म वीराणां, सुरासुरनमस्कृतः ।
नीतित्रयस्य कर्ता यो, युगादौ प्रथमो जिनः ॥३८॥ इदं नगरपुराणे भवावतारहस्ये दशमसहस्त्रे चतुर्दशशते उक्तम्स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् ।
स्नात्वा गनपदे कुण्डे, पुनर्जन्म न विद्यते ॥३८९॥ अकारादि हकारान्तं, उर्ध्वाधोरेफसंयुतम् ।
___नादबिन्दुकलाक्रान्तं, चन्द्रमण्डलसन्निभम् ॥३९०॥ एतद्देवि ! परं तत्त्वं, यो विजानाति तत्त्वतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥३९१॥ शिवेन गौर्या अग्रे उक्तं । श्रीभागवते पुष्पदन्तगणेन महिम्नः स्तवे द्वात्रिंशत्काव्यमित्ते दर्शननतिरिति, यथाध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं,
परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन् पुरमथन ! तैर्विस्मित इव, स्तुवन् पश्यन् जिद्मन् (जिहेमि त्वां) न खलु ननु दृष्टा मुखरता ॥३९४॥ पञ्चाशदादौ किल मूलभूमे-दशोलभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव च योजनानि, मानं वदन्तीह जिनेश्वराद्रेः ॥३९५॥ इदं नगरपुराणेनाभः सुतः स वृषभो मरुदेविसूनु-र्यो वै चचार शमदृक् मुनियोगचर्याम् । तस्यापहूत्यमृषयः पदमामनमन्ति,
स्वस्थाः समाहितधियो जगतां हिताश्च ॥३९६॥
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
भागवते--तथा च ब्रह्मणः पुत्रः, सूत्रधारोऽपराजितः।
तेन्गस्ति विहितं शास्त्र-मपराजितसज्ञितम् ॥३९७॥ प्रासादस्थापनं तत्र, गृहस्थापनमेव च ।
मूर्तीनां घटनं चैव, समिस्ति यथाविधि ॥३९८॥ 'सुमेरु शिखरं दृष्ट्वा' इत्यादि। द्वात्रिंशत्सम्मितैःश्लोकैरुमाऽपृच्छत् महेशतुः ।
तत्रेशेन स्वयं प्रोक्ता, देव्यै ह्याराधना जिने ॥३९९॥ कथमिव जैनमुनीनां, दर्शनमपशकुनहेतवे मूढाः ।
___मन्यन्ते सर्वेष्वपि, भव्यं शास्त्रेषु प्रोक्तमपि ॥४१०॥ तथाच भारते-कृष्णवाक्यमर्जुनं प्रति-- आरोहस्व रथं पार्थ !, गाण्डीवं च करे कुरु ।
निर्मितां जगतीं मन्ये, निर्ग्रन्यो यदि सन्मुखः ॥४०१॥ तत्रैव-पद्मिनी राजहंसाश्च, निर्ग्रन्थाश्च तपोधनाः।
य देशमुपसर्पन्ति, तत्र देशे शिवं भवेत् ॥४०२॥ तथा च शकुनसारेदर्शनं श्वेतभिषणां, सर्वोत्तमफलप्रदम् ।
किं पुनः सरिसंयुक्तं, राजयोगोऽयमुत्तमः ॥४३॥ उक्तं च वसन्तराजेवमन् विकेशा हतमानगर्वाच्छिन्नाङ्गनग्नां त्यज तैलदिग्घाः ।
रजस्वला गर्भवती रूगार्ता, मलान्वितोन्मत्तनटाधराश्च ॥४०४॥ दीनद्विषत् कृष्णविमुक्तकेशाः, क्रमेलकस्याः खरसैरिभस्थाः। संभ्यासिताक्रन्दनपुंसकाद्याः, दुःखावहाः सर्वतमीहितेषु ॥४०॥ शुत्सामकुक्षिः स्नातो वा, तिलकैश्चित्रितोऽथवा ।
मुक्तकेशो भवेद्दष्टो, ब्राह्मणोपि निरीक्षितः ॥४०६॥ विकेशानिति चेद् ब्रूथ, स्नातकास्तद्धरिस्थिताः ।
तथा कार्पटिकाः सर्वे, पुनस्तीर्थेषु मुण्डिताः ॥४०७॥
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
साङ्ख्यदर्शनिनः सर्वे, बौद्धाः सर्वे तथैव च । योगिनोऽपि विकेशाः स्यु-व्रतिभिः किं विनाशितम् ? ॥४०८॥ ब्राह्मणोपि हि निर्वाप-करो वाऽकृतभोजनः।
वेदं गणन् शुभस्त्वेषां, विपरीतोऽशुभो मतः ॥४०९॥ पाणिग्रहणे कन्यायाः, सुमहत् श्रूयते फलम् ।
तस्यास्तु वित्तग्रहणात् पातकस्य परम्परा ॥४१०॥ भारतवाक्येग्रामे वसति षण्मासान् , स्वसुतां चोपजीवति ।
एकाकी मिष्टमन्नाति, तस्यार्थोऽनुमतो गतः ॥४११॥ सदा कृत मूलकभक्षणं तैर्वित्तेन दत्ता स्वसुता नरैस्तैः ।
छेदः कृतो वैष्णवपादपानां, नंदा कृता यैर्दशमी विमिश्रा ॥४१२॥ एकादशीमाहात्म्येकथयन्ति मुखे ग्राह्यं, केचिद् गृहणन्ति तत्सदा । - निर्वाहे सत्यपि क्वापि, तद् ग्राह्य तैः कथं श्रुतम् ? ॥४१३॥ एकत्र ब्रह्मचर्यस्य, पालनं स्खलनं तथा ।।
अपरत्रोभयोर्मध्यात्, किमङ्गीक्रियतां जनैः ॥४१४॥ व्यासोक्तौ-एकरात्रोषितस्यापि, या गतिर्ब्रह्मचारिणः ।
न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥४१५॥ भागवते च--कामादुपागतां गच्छे-दगम्यामपि योषितम् । - जितेन्द्रियोऽपि तां त्यक्त्वा, युज्यते स्त्रीवधेन सः ॥४१६॥ कामार्ती स्वयमायातां, न भुङ्क्ते यो नितम्बिनीम् ।
: सोऽवश्यं नरकं याति, तन्निःश्वासहतो नरः ॥४१७॥ सदैव येन कार्य स्यात् , स चाशुद्धोपि शुद्धिमान् । ...त्यज्यतेऽग्निर्न दुष्टोपि, नारी त्वन्यरतापि च ॥४१८॥ यत उक्तम्-द्वावेताकशुचीभूतौ, दम्पती सुरतस्थितौ । .... शयनादुत्थिता नारी, पुमान् स्नानेन शुद्धयति ॥४१९॥
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
तथा यजुर्वेदे शतपथे रहस्यग्रन्थे उक्तं
"इदं भो सुभगे ! भगं ते मधुसर्पिषा लिप्यते लिहामि प्रजापतेर्मुख
मेतदद्वितीयम् " ॥
यतः स्मृतौ न स्त्री दुष्यति जारेण, नाग्निर्दहनकर्मणा ।
नापो मूत्रपुरीषाभ्यां न विप्रो वेदकर्मणा ॥ ४२० ॥
* स्वयं विप्रतिपन्ना वा यदिवा विप्रवादिनी ।
न त्याज्या दूषिता नारी, नास्यास्त्यागो विधीयते ॥ ४२१ ॥ स्त्रियो हि द्रव्यमतुलं, नैता दुष्यन्ति कर्हिचित् । तथा च- अष्टवर्षा भवेद् गौरी, नववर्षा तु रोहिणी ।
।
दशवर्षा भवेत्कन्या, तत ऊर्ध्वं रजस्वला ||४२२|| सोमस्त्वासां ददौ शौच, गन्धर्वो ललितां गिरम् ।
पावकः सर्वमेध्यत्वं, तस्मान्निः किल्बिषाः स्त्रियः ॥४२३॥ मासि मासि रजो यासां दुष्कृतान्यपकर्षति । एवं वर्ण्यते, पुनर्गीतायाम्उत्तानोच्छून मण्डूकपा टितोदरसन्निभे ।
I
क्लेदिनि स्त्रीत्रणे सक्तिरक्रमेः कस्य जायते ? ॥ ४२४॥ वर्ण्यते कार्यतो नारी, पुनरन्यत्र दूष्यते ।
अमृतं केनचिद् दृष्टं, विषमन्येन केनचित् ॥४२९ ॥ माघमासे प्रयागे यो गत्वा स्नाति दिनत्रयम् ।
तिलाहारेण तिष्ठेच्च, स्वर्गस्तस्य करे स्थितः ॥ ४२६ ॥ कदाचिद् दैवयोगेन, माघस्नानं न जायते ।
"
तदा तिलैर्मुखे क्षिप्तैः स्नानत्तोऽप्यधिकं फलम् ॥ ४२७॥ कदाचिन्नृपतिः पापघटं विप्रेषु यच्छति ।
पवित्रेषु तदा पापं तिलेषु कथमागतम् ! ॥ ४२८ ॥
?
* 'बलान्नारी प्रमुक्ता वा, चौरमुक्ता तथापि वा । न त्यज्या दूषिता नारी न कामोऽस्या विधीयते ' अत्रिस्मृतौ १८३-८४ इत्यधिकम् प्रत्यन्तरे
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
तिलानां विक्रये पापं, तैलिंकस्य च दर्शनात् ।
पूतास्ते त्वपवित्रा वा, विमर्शन्मुह्यते मनः ॥४२९॥ न गयायां न गङ्गायां, स्नानदानस्तु शुद्धयति ।
हृदयं चेदशुद्धं स्यात् , तदा सर्व निरर्थकम् ॥४३०॥ न स्नानैर्माघमासस्य, न गयापिण्डपातनैः ।।
न तीर्थभ्रमणैः शुद्धि-नीरागस्य गृहेपि या ॥४३१॥ यत उक्तं हरिभद्रसूरिपादैः
यश्चिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च । तद्धिमान् कोऽनु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न ॥४३२॥ हठो हठे यद्वदभिप्लुतः स्यान्नौ विबद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति||४३३!! यत-गतानुगतिको लोको, न लोकः पारमार्थिकः ।
- पश्य ब्राह्मणमूर्खण, हारितं ताम्रभाजनम् ॥४३४॥ तथा च-मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् ।
ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा ॥४३५॥ ननिरीक्ष्य विषकण्टककीटसर्पान ,
सम्यग् यया व्रजति तान् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् ,
ज्ञात्वा विचारयत कोऽत्र परापवादः १ ॥४३६॥ यत उक्तं श्रीउमास्वातिवाचकैःआग्रही बत निनीषति युक्तिं, यत्र तत्र मतिरस्य निविष्टा ।
पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥४२७॥ युक्तायुक्तमिदं वाक्य-मवलोक्येह धीधनैः ।
मुक्त्वा कदाग्रहं तत्त्वे, जिनोक्ते क्रियतां मनः ॥४३८॥ यो रागरोषप्रमुखानरातीन् , नित्वा स्वयं मुक्तिपथं प्रपन्नः ।
स एव संसारसमुद्रमग्ना-नुद्धर्तमीष्टे न परः कदाचित् ॥४३९॥
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
श्रीवृद्धगच्छाम्बरपूर्णचन्द्रः, श्रीदेवसूरिः सुगुरुर्बभूव । काष्ठाम्बरं यः कुमुदं विजित्य, श्रीसिद्धराज स्ववशं वितेने ॥४४०॥ बस्यान्वये यश्च बभूव साक्षात , सरस्वतीति प्रथितः पृथिव्याम् । सूरीश्वरः श्रीजयमङ्गलाख्यस्तच्छिष्यवर्योऽमरचन्द्रसरिः ॥४४१॥ श्रीधर्मघोषसरिस्तत्पट्टे सुरगुरोः समप्रतिभः । ___ यः कुम्भयोनिमुनिरिख, शास्त्रार्णवमापपावचिरात् ॥४४२॥ श्रीधर्मतिलकसूरेर्गुरुबन्धुनिकलशनामाऽस्ति ।
विहितस्तेन परेषां, सन्देहसमुच्चयो ग्रन्थः ॥४४३॥ श्रीपरिभिः प्रसाद विधाय संशोधनीय एषतराम् ।
यस्माज्जैनमुनीना-मुपयोगस्त्वत्र बहुलोऽस्ति ॥४४४॥ मेरुर्महीधरो यावद्यावच्चन्द्रदिवाकरौ ।
तावद्विजयतामेष, वाच्यमानो विचक्षणः ॥४४॥
an
न
Are
LE
इति सन्देहसमुच्चयः
LELSLSUSUBUCLEUCLEUCLETE
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिद्धगिरिमहिमा ।
सिद्धाद्रावत्र पूज्यः स्यात्संयमी लिङ्गवानपि ।
इत्यनूचा नवचनाच्छाद्धा अञ्चन्ति लिङ्गिनम् ॥ १ ॥ शिक्षयतश्च तद्वाक्यं ब्रुवतेऽविदितागमाः ।
"
द्रव्याधिकरणत्यागा तु स्वीकृताब्धिष्ठवङ्गमाः ॥२॥ नैवेमे जानते लिङ्गं, संयमं वाऽतिभद्रकाः ।
आत्मकल्याणबुद्धचैव तेऽधिगच्छन्ति दारुणम् ॥३॥ विवेचयन्ति नैतत्ते, वज्रलेपाय तेऽशुभं ।
तीर्थस्थाने कृतं यद्वच्छुभं भवाब्धितारकम् ॥४॥ न च मिथ्यात्वनिचित-मंहो याति तथाकृते ।
नासृगार्द्र क्वचिद्वस्त्रं, मृष्टं तेनैव शुध्यति ॥५॥ न च द्रव्याधिकरण - दानेन भवपारगः ।
यतिभ्यो भोजनाद्येव, शस्तं दानं शुभात्मनाम् ॥ ६ ॥ न च ते संयमाधार- आर्त्तध्यानादिकृद्यतः ।
तल्लक्षणवहिष्कृतम्
न चैतादृग्भवेद्दानं,
भूम्यादिदानवद्धेय - मेतद्दानं हितैषिणा ।
11611
शास्त्रादृतेन कल्याणं, नोक्तं शास्त्रे क्वचिच्च तत् ॥ ८ ॥ आगमोद्धारक (२०२)
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतन प्रकाशनो 1 सर्वज्ञशतक उपा. श्रीधर्मसागरीकृत पत्राकारे भेट 2 तात्त्विकप्रश्नोत्तराणि आगमोद्धारककृत , 7-60 3 आगमोध्धारककृतिसन्दोह प्रथम विभाग 5-50 द्वितीय विभाग 1-87 तृतीय विभाग प्रेसमां चतुर्य विभाग 7 षोडशकजीपर आगमोद्धारकनां व्याख्यानो भाग बीजो गुजराती अने आगमोद्धारकश्रीनी बे कृतिओ सानुवाद बुकाकारे 2-75 8 कुलकसन्दोह पूर्वाचार्यकृत 9 सन्देहसमुच्चय श्रीज्ञानकलशसूरिनिर्मित , .-75 20 जैनस्तोत्रसञ्चय आमां सोमसुन्दरसूरिकृत मुनिसुन्दरसरिकृत तथा पूर्वाचार्यकृत स्तोत्रो छे प्रेसमां 11 अष्टादशस्तोत्री ( अवचूरि समेता ) 0-75 - मुख्यप्राप्तिस्थान - जैनानन्द पुस्तकालय, सुरत For Private And Personal Use Only