________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
n
सन्देह
-
कन्दमूलफलाहारा, जटिलाः श्वापदोपमाः ।
मांसेन गौरवं तेषां, मौदकाद्यैर्न किं भवेत् ? ॥१५॥ यूपं कृत्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् ।
यो गम्यते स्वर्ग, नरके केन गम्यते ? ॥१६॥ सर्वेषामेव देवानां, वक्त्रं वैश्वानरो मतः ।।
सर्व पूतमपूतं वा, तेनात्तं तन्मुखे विशेत् ॥१७॥ आहोश्चिन्मन्त्रपतं यत , तत्तेषां वदने विशेत् ।
मन्त्रहीनं तु यमुक्तं, तत्किं कर्णादिके पुनः ॥ ५८॥ अत्याहाराद्रोगवृद्धि-रिति सत्यापितं वचः ।
घृतस्यात्यशनादमिं, वदद्भिः कुष्ठसङ्कलम् ॥५॥ उक्तंच-अग्नौ आन्याहुतिः सम्य-गादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टि-वृष्टेरन्नं ततः प्रजाः ॥६॥ । एकत्र वृष्टिरिन्द्राच्चापरत्र नृपतेः पुनः ।
. वडूः समुद्रात सूर्याच्च, कुतोऽपि स्यात् न बुध्यते ॥६१॥ वहिरेकान्ततः पूतोऽपवित्रो वेति कथ्यताम् ।
पवित्रोऽन्त्यनगेहात्तद, द्विजैरादीयते न किम् ? ॥१२॥ अपूतश्चेत् कथं तस्माद्वस्तूनां शुद्धिरुच्यते ?
औपाधिके च पावित्र्ये, माहात्म्यं ज्वलनस्य किम् ? ॥६३॥ अथासौ विप्ररोहस्थः, पवित्रो नेतरः पुनः ।
धूमे दाह्ये च कीलाया-मन्तरं तर्हि दर्यताम् ॥६॥ विप्ररोहस्थितो नित्यं, तय॑ते सर्ववस्तुभिः ।
सुवर्णपुरुषस्तस्मानिःसरन्नावलोक्यते ॥६५॥ केवलं दृश्यते भस्म, द्वयोरपि हि तत्समम् ।
तत् कयं वणिजां स्पर्शाद्विप्रा; क्रोधमवाप्नुयुः ? ॥६६॥ गृहीत्वा गुडधेनुं च, तां पृथक् कुर्वतो द्विजाः।
श्वपचा इव दृश्यन्तेऽधिका वा सर्वभक्षणात् ॥६॥
For Private And Personal Use Only