________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
ये रात्रौ सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः ।
तेषां पक्षोपवासस्य, फलं मासेन जायते ॥१०॥ तत्रैव-मद्यमांसाशनं रात्रौ, भोजनं कन्दभक्षणम् ।
ये कुर्वन्ति वृथा तेषां, तीर्थयात्रा जपस्तपः ॥१०॥ वृथा एकादशी प्रोक्ता, वृथा जागरणं हरेः ।
वृथा च पौष्करी यात्रा, कृत्स्नं चान्द्रायणं वृथा॥१०७॥ चतुर्मासे तु सम्प्राप्ते, रात्रिभोज्यं करोति यः ।।
तस्य शुद्धिन विद्येत, चान्द्रायणशतैरपि ॥१०८॥ श्रीहेमाचार्यैरप्युक्तम्पयोदपटलच्छन्ने, नाश्नन्ति रविमण्डले ।
अस्तं गते तु भुञ्जाना, अहो ! भानोः सुसेवकाः॥१०९॥ स्नानाद्यं वद्यते यत्र, तथा वढेश्व तर्पणम् ।
देवपूजार्चना दानं, भुज्यते तत्र किं निशि ? ॥११०॥ दिवसस्य द्विजातीनां, साढ़े यामद्वये गते ।
भोजनं कथ्यते शास्त्रे, न तदूर्ध्व न मध्यतः ॥१११॥ एकस्मिँश्च, सहस्रांशौ, द्विवेलं भुज्यते कथम् ।।
खादकैरिति जल्पद्भिामिनीभोजनं कृतम् ॥११२॥ चन्द्रमा मनसो जात, उताब्धेर्वाऽत्रिनेत्रतः।
वयं तत्त्वमजानाना , पृच्छामः कथ्यतां कुतः ? ॥११३॥ वेदोक्त मतिनारेण, परिणीता सरस्वती । 'मतिनार: सरस्वतीमुपयेमे' पुराणे च पुनर्देवी, विधृता च दधीचिना॥११४॥ वासवदत्तायामादावेष प्रबन्धोऽस्तिमुञ्जतस्तस्य भोगाश्च, जातः सारस्वतः सुतः ।
. तत्पितु तृतनयो, वत्सो नाम महामुनिः ॥११॥ ग्रन्थेषु पौरुषेयेषु, पुरुषोत्तमवल्लभा ।
जनश्रुत्या कुमारी च, किं तथ्यमिह दृश्यताम् ॥११६॥
For Private And Personal Use Only