Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः। ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । ___ असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तमम् ॥२३१॥ अगाधे विमले शुद्धे, सत्यशीलशमे हृदि । स्थातव्यं जङ्गमे तीर्थे, ज्ञानार्जवदयापरैः ॥२३२॥ आचारवस्त्राञ्चलगालितेन, सत्यप्रसन्नक्षमशीतलेन । ज्ञानाम्बुना स्नाति च यो हि नित्यं, किं तस्य भूयात् सलिलेन कृत्यम्! ॥२३३॥ न मृत्तिका नैव जलं, नाप्यग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म, ज्ञानध्यानतपोजलैः ॥२३४॥ एकेऽश्नन्ति सदा मांस, प्रस्तावादपरेऽपि च ।। स्य स्वं ब्राह्मयं प्रशंसन्ति, केषां वानुगम्यताम् ॥२३५॥ तथाच-एकस्तु जलहारी स्यान्चेत्यावसरिकः परः । ___ पुरोहितश्च व्यासश्च, पञ्चमो गणकः स्मृतः ॥२३६॥ प्रथमश्च द्वितीयस्तु, कर्मकृद् द्वयमुच्यते । व्यासस्तु क्षणकारी स्यात् , शास्त्रे तुर्यस्य का गतिः ? १.२३७॥ उक्तंच-ग्रामकुटस्त्रयो मासान् , माठापत्यं दिनत्रयम् । .. शीघ्रं नरकवाञ्छा चेद् , दिनमेकं पुरोहितः ॥२३८॥ राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते । __ भर्तरि स्त्रीकृतं पापं, शिष्यपापं गुरौ भवेत् ॥२३९॥ गणकस्तिथिवारादेर्मुहूर्तस्य च सूचकः । धर्मोपदेशकश्चैषु, कतमस्तन्निगद्यताम् ? ॥२४॥ पुराणं मानवो धर्म, इति वाक्यं हि कामधुक् । द्विनानामन्यथा हेतौ, क्रियमाणे किमुत्तरम् ॥२४१॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । __ आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥२४२॥ जन्मेनयनरेन्द्रेण, सन्देहत्रितयं कृतम् । पाप्मना तेन तद्देहे, मण्डलत्रितयं स्थितम ॥२४३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46