Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह उक्तंच- 'जिनाङ्गुलप्रमाणा दर्वी ' , तथानानास्यानानि दत्तानि, मनुनैश्च सुरैरपि। जिनचैत्यनिवेशः किं, तेषु सर्वत्र दृश्यते ? ॥३६॥ नगरे त्रीणि चैत्यानि, द्वितयं वायडे तथा। नडूले द्वितयं चैव, पल्यां त्रितयमेव च ॥३६४॥ एक वटमहास्थाने, पञ्चनालंधेरे पुनः । पञ्चकं पुष्करिण्यां तु, शुद्धदन्त्यां तथैककम् ॥३६॥ डीसके समभूदेकं, एकं मोढेरके पुनः । दशकं खेटयुग्मे च श्रीमाले पञ्चकं पुनः ॥३६६॥ मठास्तथैव जैनानां, मुनीनां वासहेतवे । गच्छास्तेषां च तन्नाम्नाऽद्यापि सर्वत्र विश्रुताः ॥३६७॥ शालातालानिवेशेन, तेषां तत्र व्यवस्थितिः । कथ्यते किं द्विजैनाः, पाश्चात्याः साधवस्त्वमी ? ॥३६८।। उक्तंच- जिनेन्द्रो वीतरागोऽहंन् , केवली च त्रिकालवित् । एतानि कस्य नामानि, कथ्यन्ते बालकैरपि ॥३६९॥ नाममालायां । प्रभासपुराणेभवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाऽऽकृष्टः, शिवः प्रत्यक्षतां गतः ॥३७०॥ पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः । नेमिनाथः शिवेत्येवं, नाम चक्रेऽस्य वामनः ॥३७१॥ कलिकाले महाघोरे, सर्वपापप्रणाशकः । दर्शनात्स्पर्शनाद देवि !, कोटियज्ञफलप्रदः ॥३७२॥ अहिल्यागमने जातं, दैत्यानां च वधे कृतम् । . वधे वृत्तस्य यत्पापं, तत्पापं क्षालयाम्यहम् ॥३७३॥ दीर्घायुर्बल ०००० शुभजाता । ॐ रक्ष रक्ष अरिष्टनेमि स्वाहा वामदेवशान्त्यर्थमनुविधीयते सोऽस्माकं अरिष्टनेमि स्वाहा । इत्याधिकं प्रत्यन्तरे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46