Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह रघावुक्तम्-स जातकर्मण्यखिले तपस्विना, तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्भवः, प्रयुक्तसंस्कार इवाधिकं बभौ ॥३४४॥ उक्तमनर्घ्यराघवेप्रज्ञातब्रह्मतत्त्वोऽपि, स्वर्गीयैरेष खेलति । गृहस्थप्तमयाचार-प्रक्रान्तैः सप्ततन्तुभिः ॥३४॥ दशमीमिश्रितामेके, केवलामपरे पुनः । घटिकासङ्ख्यया केचित् , केचित्पञ्चदशी तिथिम् ॥३४६॥ कुर्वन्त्येकादशीमेवं, नानामतबिकल्पनात् ।। कथं दृष्टया विहीनस्य, ‘मार्गमन्धः प्रकाशयेत् ? ॥३४७॥ द्विधा ये मुनयः प्रोक्ता, ब्रह्मराजर्षिसञ्ज्ञया । __ जटाधराः सभस्मानः, सर्वे वल्कलवाससः ॥३४८॥ तेषां मते शिवो देवोऽन्यस्य कुर्वन्ति नो नतिम् । द्विविधा अपि ते शैवाः, को मदस्तैर्द्विजन्मनाम् ? ३४९।। उक्तं च शैवागमे-सत्येन ब्रह्मचर्येण, तपसा संयमेन च । मातङ्गोपि मुनिः सिद्धो, न सिद्धास्तीर्थयात्रया ॥३५०॥ [ षडक्षरेण पूतो यश्चाण्डालो वाऽथ ब्राह्मणः । दीक्षितः शिवमन्त्रेण, सभस्माङ्गः शिवो भवेत् ॥३५१॥ ] उक्तंच कुमारसम्भवेते सद्मनि गिरेवेंगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैलिखितानलनिश्चलैः ॥३५२॥ अत्र ऋषयो जटाधराः। तृतीयाश्रममापन्नान् , बूथ चेद् ब्राह्मणान् ऋषीन्। वाल्मिकीव्यासमुख्यानां ब्राह्मण्यमभवत्कथम्? ॥३५३॥ अथ-भस्माङ्करास्तु ते सर्वे, ये जाता वनवासिभिः । तैः कृतानि पुराणानि, प्रमाणीक्रियतां कथम् ! ॥३५४॥ अन्त्याश्रमसमासीनो, द्विजस्तु भगवान् भवेत् । त्यक्तोपवीतकाषाय-वसनो मुण्डितः पुनः ॥३५५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46