Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
भागवते--तथा च ब्रह्मणः पुत्रः, सूत्रधारोऽपराजितः।
तेन्गस्ति विहितं शास्त्र-मपराजितसज्ञितम् ॥३९७॥ प्रासादस्थापनं तत्र, गृहस्थापनमेव च ।
मूर्तीनां घटनं चैव, समिस्ति यथाविधि ॥३९८॥ 'सुमेरु शिखरं दृष्ट्वा' इत्यादि। द्वात्रिंशत्सम्मितैःश्लोकैरुमाऽपृच्छत् महेशतुः ।
तत्रेशेन स्वयं प्रोक्ता, देव्यै ह्याराधना जिने ॥३९९॥ कथमिव जैनमुनीनां, दर्शनमपशकुनहेतवे मूढाः ।
___मन्यन्ते सर्वेष्वपि, भव्यं शास्त्रेषु प्रोक्तमपि ॥४१०॥ तथाच भारते-कृष्णवाक्यमर्जुनं प्रति-- आरोहस्व रथं पार्थ !, गाण्डीवं च करे कुरु ।
निर्मितां जगतीं मन्ये, निर्ग्रन्यो यदि सन्मुखः ॥४०१॥ तत्रैव-पद्मिनी राजहंसाश्च, निर्ग्रन्थाश्च तपोधनाः।
य देशमुपसर्पन्ति, तत्र देशे शिवं भवेत् ॥४०२॥ तथा च शकुनसारेदर्शनं श्वेतभिषणां, सर्वोत्तमफलप्रदम् ।
किं पुनः सरिसंयुक्तं, राजयोगोऽयमुत्तमः ॥४३॥ उक्तं च वसन्तराजेवमन् विकेशा हतमानगर्वाच्छिन्नाङ्गनग्नां त्यज तैलदिग्घाः ।
रजस्वला गर्भवती रूगार्ता, मलान्वितोन्मत्तनटाधराश्च ॥४०४॥ दीनद्विषत् कृष्णविमुक्तकेशाः, क्रमेलकस्याः खरसैरिभस्थाः। संभ्यासिताक्रन्दनपुंसकाद्याः, दुःखावहाः सर्वतमीहितेषु ॥४०॥ शुत्सामकुक्षिः स्नातो वा, तिलकैश्चित्रितोऽथवा ।
मुक्तकेशो भवेद्दष्टो, ब्राह्मणोपि निरीक्षितः ॥४०६॥ विकेशानिति चेद् ब्रूथ, स्नातकास्तद्धरिस्थिताः ।
तथा कार्पटिकाः सर्वे, पुनस्तीर्थेषु मुण्डिताः ॥४०७॥
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46