Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
तिलानां विक्रये पापं, तैलिंकस्य च दर्शनात् ।
पूतास्ते त्वपवित्रा वा, विमर्शन्मुह्यते मनः ॥४२९॥ न गयायां न गङ्गायां, स्नानदानस्तु शुद्धयति ।
हृदयं चेदशुद्धं स्यात् , तदा सर्व निरर्थकम् ॥४३०॥ न स्नानैर्माघमासस्य, न गयापिण्डपातनैः ।।
न तीर्थभ्रमणैः शुद्धि-नीरागस्य गृहेपि या ॥४३१॥ यत उक्तं हरिभद्रसूरिपादैः
यश्चिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च । तद्धिमान् कोऽनु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न ॥४३२॥ हठो हठे यद्वदभिप्लुतः स्यान्नौ विबद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति||४३३!! यत-गतानुगतिको लोको, न लोकः पारमार्थिकः ।
- पश्य ब्राह्मणमूर्खण, हारितं ताम्रभाजनम् ॥४३४॥ तथा च-मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् ।
ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा ॥४३५॥ ननिरीक्ष्य विषकण्टककीटसर्पान ,
सम्यग् यया व्रजति तान् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् ,
ज्ञात्वा विचारयत कोऽत्र परापवादः १ ॥४३६॥ यत उक्तं श्रीउमास्वातिवाचकैःआग्रही बत निनीषति युक्तिं, यत्र तत्र मतिरस्य निविष्टा ।
पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥४२७॥ युक्तायुक्तमिदं वाक्य-मवलोक्येह धीधनैः ।
मुक्त्वा कदाग्रहं तत्त्वे, जिनोक्ते क्रियतां मनः ॥४३८॥ यो रागरोषप्रमुखानरातीन् , नित्वा स्वयं मुक्तिपथं प्रपन्नः ।
स एव संसारसमुद्रमग्ना-नुद्धर्तमीष्टे न परः कदाचित् ॥४३९॥
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46