Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra २४ www.kobatirth.org उत्पत्तौ वालिखिल्यानां का शक्ति: परिकल्पिता ? | Acharya Shri Kailassagarsuri Gyanmandir " तथा द्रोणसमुत्पत्तौ द्वयोर्योगः कथं कृतः १ ॥ २६९ ॥ ह सन्देह महाभारते शान्तिपर्वणि पितामहं धर्मपुत्रः पृच्छति, - शतायुर्वे पुरुषः, शतवीर्यः शतेन्द्रियः । कस्मात् त्रियंते पुरुषाः बाला इति पितामह ! ॥२७०॥ शतायुर्वै पुरुष, इति वेदवचो ध्रुवम् । दश वर्षसहस्राणि आयुर्दशरथे कथम् ? ॥ २७९ ॥ उक्तं रघौ-पृथिवीं शासतस्तस्य, पाकशासनतेजसः । किञ्चिदूनमनूनार्द्धेः, शरदामयुतं ययौ ॥ २७२ ॥ श्रूयते - अवस्थामा बलिर्व्यासो, हनुमाश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ २७३॥ हिरण्यकशिपोरा युर्वाल्मीकेर्लोमशस्य च । वशिष्ठाधिसुन्वोश्च श्रुत्वा चेतो विमुह्यति ॥ २७४ ॥ दैत्यत्वे च मुनित्वे च नृपतित्वे तथैव च । वेदवाक्यमतिक्रम्य, कथमायुर्विवर्द्धते ? ॥ २७५ ॥ पुच्छाधः पूज्यते धेनोः कथं शण्डो न पूज्यते ? | सर्वदेवमयं स्थानं, यश्चाक्रामति हेलया ॥ २७६ ॥ शण्डस्य पाणिग्रहणा - दहो पुण्यमुपार्जितम् । सा धेनुकपत्नी स्या- दनूढावर्जकश्च सः ॥ २७७ ॥ कुलक्षणः कुवर्णो यः, शण्डो भवति कश्चन । सनील इति जल्पद्भिः स्वार्थिकैः श्रूयतेतराम् ॥ २७८ ॥ विवाहश्च तथा धेन्वा महोत्सवपुरस्सरम् । कार्यते यैर्न दोषोऽस्ति तेषां लोभे मतिर्यतः ॥ २७९ ॥ ये तु क्लेशशतैरर्थ- मुपात्तं तद्वचोबलात् क्षयं नयन्ति ज्ञमन्यास्तेषां प्रावीण्यमद्भुतम् ॥ २८० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46