Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । शुक्ला स्याद् ब्राह्मणी धेनू , रक्तवर्णा च क्षत्रिणी। पीता वैश्यी तु विज्ञेया, कृष्णवर्णा तु शूद्रिणी ॥२८१॥ कुवर्णा पुष्पिता या च, कपिला कर्बुरा तया। सर्वेपि शूदिकाभेदाः, शेषाः स्युरिति विश्रुतम् ॥२८२॥ श्वेतरोगधरो यद्वन् , नरो भवति गर्हितः । तद्वत् कुवर्णा धेनुः स्याजुगुप्स्या हि सतां पुनः ॥२८॥ कुवर्णा तु गृहस्थस्य, नार्हा स्थापयितुं गृहे। तामादातुं द्विजैर्नाना-प्रकारैः श्रूयतेतराम् ॥२८४॥ वत्सलां गुणसम्पूर्णो, तरुणीं वत्ससंवृताम् ।। दत्त्वेदृशीं गां विप्राय, सर्वपापैः प्रमुच्यते ॥२८॥ बलान्विताः शीलवयोपपन्नाः, सर्वाः प्रशंमन्ति सुगन्धिवत्यः। ययाहि गङ्गा सरितां वरिष्ठा, तथा जनानां बहुला गरिष्ठा ॥२८६॥ तस्मात्प्रदाने बहुलाप्रदाने, सद्भिः प्रशस्तं कपिलाप्रदानम् । भारते शान्तिपर्वणि । तथाच रघौ वशिष्ठधेनुरेवं वर्ण्यतेललाटोदयमाभुनं, पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाञ्चं , सन्ध्येव शशिनं नवम् ॥२८७। सापि कपिला न ॥ ब्राह्मण रेव जीवानां, कृता वर्णादिकल्पना । अस्माकं तु मते गाव:, समानगः सकला अपि ॥२८॥ यावर्जीवं नरः कश्चित् , कृत्वा पुण्यपरम्पराम् । मृतः क्वापि विदेशेऽसौ, प्रेतकार्य च नाभवत् ॥२८९॥ अपरः पापकृद धूर्तः, क्रोधनो लोभवास्तथा । स स्वगेहे मृतस्तस्य, प्रेतकार्य सुतादिभिः ॥२९॥ विदधे धेनुदानाद्य, सर्वमुद्यापनं द्विनैः । त्रिदिवं कस्तयोर्यातो, नरकं कश्च जग्मिवान् ? ॥२९१॥ आद्यश्चेन्नरकं स्वर्गात् , पातितो ब्राह्मणैर्बलात् । द्वितीयस्तु पुनः श्वभ्राद् , बलात्स्वर्ग निवेशितः ॥२९२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46