Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
'आत्मा वै जायते पुत्र ', इति सत्यं वचो यदि ।
___ पिप्पलस्य तथा शम्या:, कथं नैका फलावलिः ? ॥३०॥ एकस्यचेत् पिप्पलस्य, कारितं पाणिपीडनम् ।
कुमाराणां तु तस्यापि, दर्श्यतां किञ्चिदन्तरम् ॥३०६॥ पिप्पलस्याथ पिप्पल्याः, शम्या वा तन्नरस्य च ।
ज्ञात्वाऽन्तरं विवाहश्च, क्रियतां नो यतस्ततः ॥३०७॥ न रतिर्यस्य रुक्मिण्या, न श्रियाऽतिमनोज्ञया ।
गोपीभिरपि नो जाता, किन्तु लक्ष्म्या भविष्यति ॥३०८॥ भुङ्क्ते तां नररूपेण, सुरस्यागम्य वा पुनः ।
कीटरूपेण वा कुन्थोर्हरिः सम्यग्विमृश्यताम् ॥३०९॥ न दानान्नापि शीलाच्च, न सत्याच्चिरपालितात् । मुक्तिः स्यात् किन्तु वक्त्र(तुलस्था, दास्यत्येव हरिप्रिया ॥३१०॥ हररतिप्रियैवैषा, पूज्यते यैस्तु लक्ष्मिका ।
वृक्षास्ते नररूपेण, परं पत्रादिवर्जिता. ॥३११॥ विधेविधायिनो विप्रा, अपूर्वाः सृष्टिकारकाः ।
स्वयम्भूः सृष्टिकृत्तेषु, सृष्टिसंहारयोरपि ॥३१२॥ तीर्थानामष्टषष्टिश्च, देवानां कोटयो घनाः ।
नवकोट्यस्तु देवीनां, कस्याराधनतः फलम् ॥३१३॥ इयं भगवती लक्ष्मीः , पुरुषोत्तमवल्लभा ।
__ जनेन त्रिविधेनापि, भुज्यते तन्न सुन्दरम् ॥३१४॥ अथ चैव नराः सर्वे, हरेरंशाः प्रकीर्तिताः।
___ स्वां प्रियां प्रति मा कोपं, कुरुध्वं परसङ्गमे ॥३१५॥ आमलक्या व्रतपरान् , हरिः प्रेक्ष्य हसत्यहो!।
बुमुक्षया फेरकैश्च, सन्ति भव्यं विगोपिताः ॥३१६॥ एकमेव हि कुर्कुट्या, मर्कट्याश्च, महाव्रतम् ।
तारयिष्यति किं शेषः, शरीरक्लेशकारिभिः ? ॥३१७॥
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46