Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुञ्चयः।
१९
वेदार्हा ब्राह्मणाः केन, ब्राह्मण्यस्तु कुतो नहि ?।
ताभिर्मातास्तु ये तेषां, वेदानां योग्यता कुतः ? ॥२०९।। वेदान्तेऽप्युक्तम् -- ब्राह्मणस्य च देहोऽयं, नोपभोगाय जायते ।
इह क्लेशाय महते, प्रेत्यानन्तसुखायते ॥२१॥ शौचाचाररता विप्रा, बन्धुभ्योऽपि स्पृशन्ति न ।
मन्यन्तस्तातसन्देह, कुलान्माद्यन्ति चाधिकम् ॥२११॥ द्विनानां लक्षणं ब्रह्म, तच्च क्वापि न दृश्यते ।
ततस्तेन विहीनानां, ब्राह्मण्यं नामधारकम् ॥२१२॥ तं च भारतेमृगो दारुमयो यद्वद्, यद्वचर्ममयो गनः ।
ब्राह्मणस्तु क्रियाहीनस्तथा वै नामधारकः ॥२१३॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ।
___अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥२१४॥ तत्रैव सर्पप्रश्नेविद्धि भोगीन्द्र ! तं शूद, यो रौद्रश्चारुवृत्तमुक ।
दुर्वत्ता यान्ति शूद्रत्वं, त्रिवेदवेदिनोऽपि हि ॥२१५॥ तथा-सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौच, जलशौचं च पञ्चमम् ॥२१६॥ मुक्त्वा शौचचतुष्कं च, द्विजैः पञ्चममादृतम् ।
स्नानादाचमनाच्छुद्धि, प्रकुर्वद्भिर्दिने दिने ॥२१७॥ यत उक्तम् --- मृदो भारसहस्रेण, जलकुम्भशतेन च ।
न शुद्धयन्ति दुराचाराः, स्नातास्तीर्थशतैरपि ॥२१८॥ कामरागमदोन्मत्ता, ये च स्त्रीवशवर्तिनः ।
___न ते जलेन शुद्धयन्ति, स्नातास्तीर्थशतैरपि ॥२१९॥
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46