Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org अग्निकुण्डसमा नारी, घृतकुण्डसमो नरः । Acharya Shri Kailassagarsuri Gyanmandir सन्देह तेन नारद ! नारीणां संयोगं परिवर्जयेत् ॥ १७३ ॥ वेदस्मृतिपुराणेषु श्रुत्वा स्त्रीणां कुशीलताम् । अनुभूय स्वयमपि, मदं कुर्वन्ति किं जडाः || १७४ ॥ अनादावन संसारे, तिस्रः सार्द्धाः पतिव्रताः । ? शेषास्तद्विपरीतास्तु, कः कुलस्य कदाग्रहः १ ॥ १७५ ॥ यतः सप्तर्षिभिः प्रोक्तम् - उच्छ्रितानि पतितानि पतितान्युच्छ्रितानि च । कुलाध्ययनवृत्तानि मया दृष्टान्यनेकशः ॥ १७६ ॥ अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शुद्रात् प्रतिग्रहं कृत्वा, खरो भवति ब्राह्मणः || १७७ ॥ खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ १७८ ॥ प्रकृत्या कर्म्मणा चापि द्विधाः शुद्राः प्रकीर्त्तिताः । कर्मणा वणिजः शुद्राः प्रकृत्या वा निगद्यताम् ॥ १७९ ॥ शुद्राश्च कुर्वतां वैश्यान् वैश्यान् शुद्रान् प्रकुर्वताम् । 1 अपूर्वं सृष्टिकर्तृत्वं, गूर्जरत्राद्विजन्मनाम् ॥ १८० ॥ प्रत्यक्षं कारवश्चौराः, स्वर्णकारादयो मताः । वैश्यास्ते हेतुना केन, शुद्राश्च वणिजः कथम् ॥ १८९ ॥ भारते - वैश्यस्य सततं धर्मः, पाशुपाल्यं कृषिस्तथा । अग्निहोत्रपरिस्पन्दो - वेदाध्ययनमेव च ॥ १८२ ॥ वणिजां सत्पथस्थान - मातिथ्यं प्रशमो दमः । विप्राणां स्वागतं त्यागो, वैश्यधर्मः सनातनः ॥ १८३ ॥ तिलान् गन्धान् रसाश्चैव, विक्रीणीत न वै क्वचित् । वणिक्पथसमासीनो, वैश्यः सत्पथमावसन् ॥ १८४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46