Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
___ एषा पाण्डो: शिक्षा कुन्ती प्रतिश्लोकाः ॥४॥ उक्तं च दर्पदलनेअनादाविह संसारे, दुर्वा रे मकरध्वने ।
कुले च कामिनीमूले, का जाते: परिकल्पना ! ॥१६१॥ कुलस्य कमलस्येव, मूलमन्विष्यते यदि।
दोषपकप्रसक्तोऽन्तस्तदवश्य प्रदृश्यते ॥१६२॥ एकश्चेत् पूर्वपुरुषः, कुले यज्वा बहुश्रुतः ।
अपरः पापकृन्मूर्खः, कुलं कस्यानुवर्तते ॥१६३॥ कुलाभिमानाभरणस्य माता, पितामही वा प्रपितामही वा । योषित् स्वभावेन यदि प्रवृत्ता, तदेष दोषः कुलमूलकाषः ।।१६४॥ कुलभिमानः कस्तेषां, जघन्यस्थानजन्मनाम् ।
कुले कुलङ्कषा येषां, जघन्या निम्नगा स्त्रियः ॥१६॥ नैषधे-शुद्धिवंशद्वयो शुद्धौ, पित्रोः पित्रोर्यदेकशः ।
___ तदनन्तकुला दोषा-ददोषा जातिरस्ति का? ॥१६६॥ कुलाभिमानिभिर्वार्ता, छन्दोदेवस्य न श्रुता ।
यस्यां च श्रुतमात्रायां, प्रयाति कुलजो मदः ॥१६॥ पुरा हि नारदस्याये, द्रौपद्या सत्यपञ्चकम् ।
यदाख्यायि तदेवापि, श्रुतमप्यश्रुतीकृतम् ॥१८॥ यतः-सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम ।
तथापि कुरुते वाञ्छां, मनः पठेऽपि नारद ! ॥१६९॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः ।
तेन नारद ! नारीणां, सतीत्वमुपजायते ॥१७॥ सुरूपं पुरुषं दृष्ट्वा, पितरं भ्रातरं सुतम् ।
मनश्चलति नारीणा-मेतत्सत्यं हि नारद ! ॥१७१॥ नारीणां न प्रियः कश्चि-न्न च द्वेष्योऽपि कश्चन ।
गावस्तृणमिवारण्ये, निघत्सन्ति नवं नवम् ॥१७२॥
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46