Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः।
युगानामेव मूर्द्धन्यं, कलि मन्यामहे वयम् ।
धेन्वादीनां वधो यत्र, निषिद्धो द्विजहस्ततः ॥६॥ नश्यन्तोऽपि रटन्तोऽपि, बलिभिर्दुबलाः पुनः ।
हन्यन्ते पशवः पापैः, खादकैर्धर्मकेतवात् ॥६९।। भारते-एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥७॥ इन्द्रियाणि पशून कृत्वा, वेदी कृत्वा तपोमयीम् ।
अहिंसामाहुतिं कृत्वा, आत्मयज्ञं यजाम्यहम् ॥७१॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थबाधकैः ।
शममन्त्रहुतैर्यज्ञं, विधेहि विहितं बुधैः ॥७२॥ ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते ।
असत्कर्मसमित्क्षेपै-रग्निहोत्रं कुरूत्तमम् ॥७३॥ व्यासशिक्षा भारतादौश्रूयतां धर्म सर्वस्त्रं, श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥७॥ श्रूयतां धर्मसर्वस्वं, भारतादाविदं वचः ।
षटूशतानि नियुज्यन्ते; इति मध्ये व्यवस्थितम् ॥७॥ षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥७६॥ प्रान्ते तु शान्तिकं पर्व, सर्वहिंसाविवर्नकम् ।
__ त्रयाणां कतमद्वयं, सम्यग् ज्ञात्वा निगद्यताम् ? ॥७७॥ आरोग्यं भास्करादिच्छेदित्यसत्यं वचो ध्रुवम् ।
___ स्वयं गलितपादोऽसौ, कथं कष्टापहो हहा ! ॥७॥ आकाशकुसुमप्राय, यन्मुक्तिश्च जनार्दनात् ।
· सहस्रशोऽवतारैश्च, कुर्वतोऽस्य गतागतम् ॥७९॥
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46