Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
समुच्चयः ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकाशान्मेदिनीं प्राप्तस्ततोऽसौ मेदिनीपतिः । एवमेव पुनश्वोक्त्वा, विवेश धरणीतलम् ॥४७॥
अथ महाभारते शान्तिपर्वणि पाण्डवदाहावसरेप्रागू विप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्या पायं नैवापायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं हृतसुतकृतये शाङ्गिकायां स्म सुते, यत्पुत्राणां चतुष्कं प्रणतिभिरमुनाऽमोचि वह्नेस्ततस्तत् ॥ ४८ ॥ ते तक्षकसुतोऽश्वसेनः मयश्च सप्तमः कोपि न । महाभारते शान्तिपर्वणि—
-
रंतिदेव नरेन्द्रेण, गोमेधा बहवः कृताः ।
तेषां च रुधिरैर्घोरा, प्रावर्त्तत महानदी ||४९ ॥ चर्मण्वतीति विख्याता, सा जने : तीर्थमुत्तमम् । तस्याः स्नानेन शुद्धि: स्यान्, मोहस्य ललितं हि तत् ॥५०॥ द्विधा ऋषय:- एके निवृत्तमांसा एकेऽनिवृत्तमांसाः । ये निवृत्तमांसास्तेषां दधिमधुमिश्रो मधुपर्क:, ये त्वनिवृत्तमांसास्तेषामभ्यागताय श्रोत्रियाय महोक्षं वा महाजं वा वत्सतरीं वा पचतिगृहमेधिनः ॥ इतिवेदे | महोक्षं वा महाजे वा पच्यते वत्सतर्यपि ।
येषां हेतोः क्षत्रियास्ते, ब्राह्मणा वा निगद्यताम् ॥ ५१ ॥ क्षत्रियाश्चेत्कृतं तेषां वार्त्ताभिः पापकारिणाम् ।
,
ब्राह्मणा यदि तत्तेषां म्लेच्छानां च किमन्तरम् ॥५२॥
नैषधे कलिस
अधावत् क्वापि गां वीक्ष्य, हन्यमानामयं मुदा । अतिथिभ्यश्च तां ज्ञात्वा मन्दं मन्दो न्यवर्त्तत ॥ ५३ ॥ गोमेवो नरमेधश्च, अक्षता च कमण्डलुः ।
कलौ पञ्च न विद्यन्ते, देवरः पुत्रकाम्यया ॥५४॥
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46