Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
सूक्तिरत्न कोषः
67 लुब्धस्तब्धोऽनृजुमूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ ८ 68 वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं स न समानः स्यात्पुच्छेन पिशुनः शुनः ॥ ९ 69 चारुता परदारेभ्यो धनं लोकोपतप्तये । प्रभुत्वं साधुनाशाय स्वले खतरा गुणा ॥ १० 70 चमत्कुर्वन्ति नश्चित्तमपूर्वाः केऽप्यमी खलाः । येषां न तिलसम्बन्धः कदाचिदपि दृश्यते ॥ ११ 71 अहो वलभुजङ्गस्य कोऽप्यपूर्वो वधक्रमः ।
कर्णे लगति चान्यस्य प्राणैश्चन्यो वियुज्यते ॥ १२ 72 स्नेहेन भूतिदानेन कृतस्वच्छोऽपि दुर्जनः ।
दर्पणश्चान्तिके तिष्ठन् करोत्येकमपि द्विधा ॥१३ 73 निधानमिव मात्सर्यमन्तनवस्य तिष्ठति ।
परश्लाघाषु येनास्य दृश्यते मुद्रितं मुखम् ||१४ 74 वराकः स कथं नाम नम्रतामेति दुर्जनः ।
आपादमस्तकं यस्य स्थिता चान्तः कुशीलता ॥ १.५ 75 स्वभाव कठिनस्यास्य कृत्रिमां विभ्रते नतिम् ।
गुणोऽपि परहिंसायै चापस्य खलस्य च ॥१६ 76 प्रकाशयन्ति प्रथमं जनयत्यन्धतामनु । भवत्यसाधुवाक्यार्थास्त डिद्विलसितोपमा ॥१७ 77 स्वलानामुपदेशोऽपि प्रकोपाय शमाय न ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥१८ 78 खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धोतोऽपि कि याति वायसः कलहंसताम् ॥१९ 79 नौश्च दुर्जनजिह्वा च प्रतिकृल [ वि ] सर्पिणी जनप्रतारणायैव दारुणा केन निर्मिता
।
Jain Education International
75 प० 'स्वभावकठिनास्यस्य'
76 ख० 'भवन्ति साधुवाक्यार्थां'
॥२०
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392