Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
दानादिप्रकरणम् साधुश्चारित्रहीनोऽपि समानो नान्यसाधुभिः । भग्नोऽपि शातकुम्भस्य कुम्भो मृद्धटकैरिव ॥४१॥ यद्यऽध दुःषमादोषादनुष्ठानं न दृश्यते । केषाश्चिद् भावचारित्रं तथापि न विहन्यते ॥४२॥ सातिचारचरित्राश्च काले[४७-१]ऽत्र किल साधवः । कथितास्तीर्थनाथेन तत् तथ्यं कथमन्यथा ॥४३॥ कालादिदोषात् केषाञ्चिद् व्यलीकानि विलोक्य ये । सर्वत्र कुर्वतेऽनास्थामात्मानं वञ्चयन्ति ते ॥४४॥ वहन्ति चेतसा द्वेषं वाचा गृह्णन्ति दूषणम् । अनम्रकायाः साधूनां पापिनो दर्शनद्विषः ॥४५॥ इहैव निन्द्याः शिष्टानां मृता गच्छन्ति दुर्गतिम् । निर्वर्तयन्ति संसारमनन्तं क्लिष्टमानसाः ॥४६॥ इदं विचिन्त्यातिविविक्तचेतसा ।
___यमेव किञ्चिद् गुणमल्पमञ्जसा । विलोक्य साधु बहुमा[४७-२]नतः सुधीः
___ प्रपूजयेत् पूर्णमिवाखिलैर्गुणैः ॥४७॥ तथा लभेताविकलं जनः फलं
निजाद विशुद्धात् परिणामतः स्फुटम् । अभीष्टमेतत् प्रतिमादिपूजने ... फलं समारोपसमर्पितं सताम् ॥४८॥ काष्ठोपलादि गुरुदेवबुद्धया
ये पूजयन्त्यत्र विशिष्टभावाः । ते प्राप्नुवन्त्येव फलानि नूनं
भावो विशुद्धः फलसिद्धिहेतुः ॥४९॥ कालोचितं साधुजनं त्यजन्तो
मार्गन्ति येऽन्यं कुधियः सुसाधुम् । दानादिपात्रं द्वितयाद् विहीना
स्ते दुर्गतिं यान्ति हि दुर्दुरूढाः ॥५०॥ [४८-१]वस्त्रादिदानमात्रेऽपि पात्रापात्रपरीक्षणम् । क्षुद्राः कुर्वन्ति यत् केचित् तत् कार्पण्यस्य लक्षणम् ॥५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392