Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तमोऽवसरः जिनागमं येऽनधिगम्य सम्यग
गम्भीर[५९-१]मात्मम्भरयो वराकाः । दानं निषेधन्ति वचो न करें
कणेजपानां करणीयमेषाम् ॥१॥ नो जानन्ति जिनागमं जडधियो नो सौगताद्यागमं
नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् । दातृणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां
मिथ्यादेशनया नयन्ति नरकं लोकं ब्रजन्ति स्वयम् ॥२॥ महानुभावा भवमुत्तरीतुं
प्राणैरपि प्राणिगणोपकारम् । कुर्वन्ति केचित् करुणाईचित्ता
श्चन्द्रा इवाहादितजीवलोकाः ॥३॥ अन्ये शुचैव परितापितविश्वविश्वा
वैश्वानरा इ[५९-२]व नरा निरये रयेण । गन्तुं द्वयापकृतयो कथयन्ति मिथ्या
किं कुर्महे वयमहो विषमो हि मोहः ॥४॥ तथापि किञ्चित् कथयामि युक्तं
मध्यस्थलोकस्य स्खलूपयुक्तम् । मोहव्यपोहाय विहाय कृत्यं
__ स्वार्थात् परार्थो महतां महिष्ठः ॥५॥ यावद्वर्ष ननु जिनवृषा वर्षति स्वर्णवर्ष
___ हर्षोत्कर्ष प्रणयिशिखिनां कुर्वदुर्वीगतानाम् । नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं
प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः ॥६॥ निष्क्रान्तिकाले सकला जिनेन्द्रा
यादृच्छिकं दा[६०-१]नमतुच्छवाञ्छाः । यच्छन्ति विच्छिन्नदरिद्रमा
मेघा इवाम्भो भुवि निर्विशेषम् ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392