Book Title: Sambodhi 1979 Vol 08
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 375
________________ ४२ Jain Education International श्रीमत्सूराचार्यविरचितम् इह हि गृहिणां निर्वाणाङ्गं विहाय विहायितं जिनपरिवृढैः प्रौढं बाढ़ परं परिकीर्तितम् । न खलु पदतो मुख्येमु [ ५७ - २ ]ष्मिन्नतीव कृतादरैः कृतिभिरनिश भव्या भाव्यं भवान्धितितीर्षया ॥ १०१ ॥ ग्लानादीनां पुनरवसर सीदतां क्वापि बाढ यन्नादेयं स्वयमुरुतरं दापनीयाः परेऽपि । काले दत्तं विपुलफलदं येन सम्पद्यतेऽदः सद्धान्यानामिव जलधरैः शुष्यतां मुक्तमम्भः ॥ १०२॥ प्रत्तं विपत्तावुपकारि किश्चित् सम्पद्यते जीवितकल्पमल्पम् । पुंसः पिपासोः सुतरां मुमूर्षो रानीय पानीयमिवोपनीतम् ॥१०३॥ कालेन ता एव पदार्थमात्राः प्रायः कियन्तेऽसुमता महार्घाः । स्वात्यामिवापोs [५८ - १ - १ ]पि पयोदमुक्ताः स्थूलामलाः शुक्तिमुखेषु मुक्ताः ॥ १०४ ॥ प्रस्तावमासाद्य सुखाय सद्यः सम्पद्यते दुःखकरः पदार्थः । यूनां मदायेन्दुरिव प्रियाभि योंगे बियोगे परितापहेतुः ॥ १०५ ॥ यद्यन्यदा न क्रियते तथापि व्यापत्सु कार्यं गुरुणाssदरेण । अन्नादिदानं महते फलाय कोऽल्पेन नानल्पमुपाददीत ॥ १०६ ॥ इदं विमलमानसो विपुलसम्पदामास्पदं - पदं च यशसां परं परमपुण्य सम्पादकम् । मुनीन्द्रजनपूजनं जनितसज्जनानन्दनं विधाय विधिनाऽधुनाऽप्यवधुनाति घ[ ५८ - २ ] न्योऽघमम् ॥ १०७ ॥ ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392